SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४४१ वाहनमस्य रोहिताश्वः ॥ ४१ ॥ आश्रयमात्मस्थानमश्नाति आश्रयाशः आश्रयमाधारमनात्याश्रयाश इत्येके ॥ ४२ ॥ बर्हिषो दर्भा ज्योतिरस्य बर्हिज्योतिः ॥ ४३ ॥ दहति दहनः ॥ ४४ ॥ बंहते वर्धते बहुलः “स्थावङ्कि-” ॥ ( उणा४८६ ) ॥ इत्युलो नलुक् च ॥ ४५ ॥ हव्यं वहात हव्यवाहः ॥ ४६ ॥ अनित्यनेन लोक इत्यनलः “मृदिकन्दि - " || ( उणा - ४६५ ) ॥ इत्यलः ॥ ४७ ॥ अगत्यूर्ध्व याति अग्निः " वीयु - " ॥ ( उणा - ६७७ ) ॥ इति निः ॥ ४८ ॥ ॥ १६५ ॥ विभैव वसु धनमस्य विभावसुः ॥ ४९ ॥ सप्त ऊर्ध्वाश्च अर्चिषोऽस्य सप्तार्चिः, उदर्चिः ॥५०॥ ५१ ॥ एते पुंलिङ्गाः । अप्पित्तं नपुंसकम् । शेषश्चात्र अग्नौ वमिद् दीप्रः समन्तभुक् । पपरीकः पविघासिः पृथुर्घ सुरिराशिरः ॥ जुहुराणः पृदाकुश्च कुषाकुर्हवना हविः । घृतार्चिर्नाचिकेतश्च प्रष्टो वञ्चतिरञ्चतिः ॥ भुजिर्भरथपीथौचा स्वनिः पवनवाहनः ॥ स्वाहाऽग्नायी प्रियाऽस्य च । अस्य वह्नेः प्रिया, सुष्ठु आहूयन्ते देवा अनया स्वाहा, पृषोदरादित्वात्, सुष्ठु आह ब्रूते देवान् ऋत्विग्नयेति वा, स्वाहेत्यव्ययमपि ॥ १ ॥ अग्नेर्भार्याऽग्नाय " पूतक्रतुवृषाकप्यभिः - " ॥ २ । ४ । ६० ॥ इति ङी, ऐकारश्चान्तस्य ॥ २ ॥ और्वः संवर्त्तकोऽब्ध्यग्निर्वाडवो वडवामुखः ॥ १६६ ॥ ऊर्वस्यापत्यमौर्वः, विदादित्वादञ् दधीचिसूनोः पिप्पलादस्य उरूद्भवत्वादिति चा । वरुणभयान्मात्रा ऊर्वोर्गोपितत्वादित्येके ॥ १ ॥ संवर्त्तयति संवर्त्तकः ॥ २ ॥ अब्धेरग्निरब्ध्यग्निः ॥ ३ ॥ वडवाया अपत्यं वाडवः " वाडवेयो वृषे " ॥ ६ । १ । ८५ ॥ इत्यत्र नियमादेयण् न भवति ॥ ४ ॥ वडवाया इव मुखमस्य वडवामुखः ॥ ५ ॥ १६६ ॥ दवो दावो वनवह्निः , दुनोति वन्यान् दवः, अच्, णे दावः ॥ २ ॥ वनस्य वह्निर्वनवह्निः ॥ ३ ॥ मेघवह्निरिरम्मदः । ८८ वा ज्वलादि " ॥ ५ । १ । ६२ ॥ इति मेघस्य वह्निर्मेघवह्निः ॥ ॥ इरया जलेन माद्यतीरम्मदः ॥ ५ । १ । १२७ ॥ इति खशि निपात्यते ॥ २ ॥ छागणस्तु करीषाग्निः " इरम्मदः 22
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy