SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४४० अभिधानचिन्तामणौ- . ॥१॥ बृहन्तो भानवो रश्मयोऽस्य बृहद्भानुः ॥२॥ हिरण्यं रेतोऽस्य हिरण्यरेताः, यत् स्मृतिः- “अग्नेरपत्यं प्रथमं सुवर्णम्” इति ॥३॥ धनं जयति धनञ्जयः ॥ ४ ॥ हव्यं हविर्तुतं चाऽश्नाति हव्याशनः, हविरशनः, हुताशनः, नन्द्यादित्वादनः, यौगिकत्वाद् हव्यभुग इत्यादयः ॥ ५ ॥ ६ ॥ ७ ॥ कृपाटस्याम्भसो योनिधूमजत्वाद् मेघानां, कृपीटयोनिः। 'कृपीटं योनिरस्य' इत्येके; यदाहुः-"अभ्यो ऽग्निब्रह्मणः क्षत्रमश्मभ्यो लोहमुत्थितम्" ॥८॥ दाम्यति दमुनाः, दमेहनसूनसो, दमूना अपि ॥ ९ ॥ विरोचते विरोचनः ॥ १० ॥ आशोष्टुमिच्छति आशुशुक्षणिः " आङः कृशुषेः सनः" ॥ ( उणा-६४३ ) ॥ इत्यणौ साधुः ॥ ११ ॥ छागो रथोऽस्य च्छागरथः ॥१२॥ तनूं न पातयति तनूनपात्, देहधर्तृत्वात् ; नखादित्वात् : साधुः ॥ १३ ॥ ॥ १६३ ॥ कृश्यति दाह्याभावे कृशानुः " कृशेरानुक् ” ॥ ( उणा-७९४ )॥ १४ ॥ विश्वानरस्यापत्यं वैश्वानरः, विदादित्वादञ् ॥ १५॥ वीतयोऽश्वा होत्रं हव्यमस्य वीतिहोत्रः ॥ १६ ॥ वृषेण धर्मेण अकति वृषाकपिः, वृषेण तेजसा आकम्पते वा ॥ १७ ॥ पुनाति पावकः ॥१८॥ चित्रा नाना भानवः कान्तयोऽस्य चित्रभानुः ॥ १९ ॥ अपां पित्तं सारमपित्तम् ॥ २० ॥ धूमो ध्वजोऽस्य धूमध्वजः ॥ २१ ॥ कृष्णो धूमो वाऽस्य कृष्णवां ॥ २२ ॥ अर्चीषि विद्यन्तेऽस्यार्चिष्मान् ॥ २३ ॥ शम्या गर्भः शमीगर्भः; यत् कालिदासः-"शमीमिवाभ्यन्तरलानपावकाम्” इति ॥२४॥ तमो हन्ति तमोघ्नः ॥ २५ ॥ शुक्रं तेजोऽस्त्यस्य शुक्रः, अभ्रादित्वादः ॥ २६ ॥ १६४ ॥ शोचींषि ज्वालाः केशा अस्य शोचिष्केशः ॥ २७ ॥ शुचिः, शोधकत्वात् ॥ २८ ॥ हुतं वहति हुतवहः, लिहा. दित्वादच् ॥ २९ ॥ उषसि रात्रौ बुध्यते उषबुधः “वाऽहर्पत्यादयः" ॥ १। ३ । ५८ ॥ इति साधुः ॥ ३० ॥ सप्त-मन्त्र-ज्वालशब्देभ्यः परो जिह्वः सप्तजिह्वा अस्य सप्तजिह्वः, यदाहुः "भवति हिरण्या कनका रक्ताकृष्णा वसुप्रभा कन्या। रक्ता बहुरूपेति सप्त सप्तार्चिषां जिह्वाः ॥ १॥” . : मन्त्र एव जिह्वा अस्य मन्त्रजिह्वः, ज्वाला जिह्वाऽस्य ज्वालाजिह्वः॥३१॥३२॥ ॥ ३३ ॥ ज्वलंति इत्येवंशीलो ज्वलनः "भूषाकोधार्थ-" ॥५॥२॥ ४२ ॥ इत्यनः ॥ ३४ ॥ शिखाः सन्त्यस्य शिखी ॥ ३५ ॥ जागर्ति वायुना जागृविः, "जृशस्तृ-" ॥ ( उणा- ७०५) ॥ इति डिद् विः ॥ ३६ ॥ जाते विद्यते जातवेदाः “अस्" ॥(उणा-९५२)॥ इत्यस् , जाता वेदा अस्मादिति वा पृषोदरादित्वात् ॥३७॥ बर्हिर्दर्भः शुष्म बलमस्य बर्हिःशुष्मा। बहते वर्धते बर्हिरिरि व्यस्तम्, यथा 'बर्हिमुखा देवाः' शुष्यत्यनेन शुष्मा यथा-'शुष्मणि प्रणयनाभिसंस्कृते' इति बर्हिरुत्क इत्यमरमाला, यथा 'दृशां बर्हिणो बर्हिरुत्कः' इति ॥३८॥ अनिलः सखाऽस्य अनिलसखा ॥ ३९ ॥ वसन्ति देवा अस्मिन् वसुः ॥ ४० ॥ रोहिताख्यो मृर्गोऽश्वो
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy