SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः। ४३९ आधारस्त्वम्भसां बन्धः आध्रियन्तेऽम्भांसि अस्मिन्नाधारः क्षेत्रादिसेकार्थ यत्राम्भः संचीयते सोऽम्भसां बन्धः ॥ १॥ निर्झरस्तु झरः सरिः। उसः स्रवः प्रस्रवणं निसर्यति झीर्यति च जलमत्र निर्झरः, झरः ॥१॥२॥ सरति सरिः स्त्रीलिङ्गः "स्वरेभ्य इः" ॥ (उणा-६०६) ॥ ३ ॥ उनत्ति उस्रः "ऋजिरिषि-" ॥ (उणा५६७)॥ इति कित् सः, पुंस्ययम् । वाचस्पतिस्तु ‘सरिः स्त्री निझरो झरः उसस्त्वस्त्री' इति क्लीवेऽप्याह ॥ ४ ॥ स्रवति स्रवः ॥ ५॥ प्रस्रवन्त्यनेन गिरयः प्रस्रवणम् ॥६॥ जलाधारा जलाशयाः ॥ १६२॥ जलानामाधारा जलाधाराः सामान्येन चाप्यादयः ॥१॥ जलानामाशयो हृदयमेषां जलाशयाः, जलमाशेते एषु वा ॥ २ ॥ १६२ ॥ ॥ समाप्तोऽयमप्कायः ॥ तेजःकायमाह वहिव॒हद्भानु-हिरण्यरेतसौ ___ धनञ्जयो हव्यहविर्हताशनः। कृपीटयोनिर्दमुना विरोचना___ऽऽशुशुक्षणी छागरथस्तनूनपात् ॥ १६३ ॥ कुशानु-वैश्वानर-वीतिहोत्राः वृषाकपिः पावक-चित्रभानू । अप्पित्त-धूमध्वज-कृष्णवा__ऽर्चिष्मत्-शमीगर्भ-तमोघ्न-शुक्राः ॥ १६४ ॥ शोचिष्केशः शुचि-हुतवहो-षर्बुधाः सप्तमन्त्रज्वालाजिह्वो ज्वलन-शिखिनौ जागृविर्जातवेदाः । बर्हिःशुष्मा-ऽनिलसख-वसू रोहिताश्वा-ऽऽश्रयाशौ बहिर्कोतिर्दहन-बहुलौ हव्यवाहोऽनलोऽग्निः ॥ १६५ ॥ विभावसुः सप्तो-दचिः वहति तेजो वह्निः “ वीयुसुवह्यगिभ्यः- " ॥ ( उणा-६७७ ) ॥ इति निः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy