SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४३८ अभिधानचिन्तामणौ नमिति कौटिल्यः ॥ १॥ घटीनां यन्त्रं घट्यो यन्त्र्यन्तेऽत्रेति वा घटीयन्त्रं मालाख्यं येन कूपादेर्जलमूर्ध्व वाह्यते ॥ २ ॥ पादावर्तोऽरघट्टकः ॥ १५९ ॥ पादाभ्यामावर्त्यते भ्रम्यते पादावर्तः ॥ १ ॥ अरान् घट्टयति, अरा घट्टयन्तेऽत्रेति वा अरघट्टः, केऽरघट्टकः ॥ २ ॥ १५९ ॥ अखातं तु देवखातं न खातमखातं नागादिकुण्डमकृत्रिमम् ॥ १॥ देवैरिव खातं देवखातम् ॥२॥ पुष्करिण्यां तु खातकम् । पुष्करमस्त्यस्यां पुष्करिणी तडागिका "पुष्करादेर्देशे” ॥ ७ । २ । ७० ॥ इतीन् , तत्र ॥ १ ॥ खन्यते खातं इखं खातं खातकम् ॥ २॥ .. पद्माकरस्तडागः स्यात् कासारः सरसी सरः ॥ १६० ॥ पद्मानामाकरः पद्माकरः, योग्यत्वात् ॥ १ ॥ ताज्यते जलमस्मिंस्तडागः । तडे. रागः तडाग इत्यपरः । तटान्यकति तटाक इत्यपरे । 'कासृङ् शब्दकुत्सायाम्' इति दन्त्यान्तः, कासन्ते बकादयोऽत्र कासारः पुंक्लीबलिङ्गो "अग्यङ्गि-” ॥ (उणा-४०५)॥ इत्यारः कमासरत्यत्रेति वा ॥ २ ॥३॥ सरतिर्जलमत्र "अस्"। (उणा-९५२) इत्यसि स्त्रीलिङ्गे गौरादित्वात् ङ्यां सरसी, क्लीबे तु सरः। वाचस्पतिस्तु-'कासारस्त्वल्पसरसि सरसी तु महासरः' इति विशेषमाह ॥४॥५॥१६०॥ वेशन्तः पल्वलोऽल्पं विशन्ति मजन्यस्मिन् वेशन्तः "जविशिभ्याम्." ॥ ( उणा- २१९ ) ॥ इत्यन्तः ॥ १॥ 'पल गतौ' पल्यते पल्वलः पुंक्लीबलिङ्गः “शमिकमि-"॥ ( उणा- ४९९ ) ॥ इति वलः । तल्लो देश्यां संस्कृतेऽपि ॥ २ ॥ परिखा खेयखातिके । परिखन्यते परिखा "क्वचित्" ॥५। १ । १७१॥ इति डः ॥१॥ खन्यते खेयम् “खेयमृषोद्ये" ॥ ५। १ । ३८ ॥ इति साधुः ॥ २॥ खातैव खा. तिका दुर्गवेष्टनहेतुः ॥ ३॥ _ स्यादालवालमावालमावापः स्थानकं च सः ॥ १६१ ॥ आलूयते खन्यते आलवालः पुंक्लीबलिङ्गः "चात्वाल-" ॥ ( उणा-४८०)॥ इत्याले निपात्यते ॥ १ ॥ आवलते बहिर्निर्गमादम्भोऽत्र आवालं क्लीबलिङ्गः । व्या. डिस्तु-"आवालो जलपिण्डिलः" इति पुंलिङ्गमाह ॥ २॥ आ उप्यतेऽम्भोऽस्मिन्ना. वापः॥३॥ वृक्षसेकाऽथे द्रवतोऽम्भसः स्थानं स्थानकम् , यदाहुः- आलवालं विदुर्धारा धारणं द्रवतोऽम्भसः ॥ ४ ॥ १६१ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy