SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४३७ . ४ भूमिकाण्डः। . कूपः स्यादुदपानोऽन्धुः प्रहिः । कौति प्रतिशब्देन कूपः पुंस्त्रीलिङ्गः “युसुकु-" ॥ (उणा-२९७)॥ इति प ऊत्वं च, कुत्सिताः कोर्वा आपोऽत्रेति वा; पृषोदरादित्वात् ॥१॥ उदकं पीयतेऽस्मिन् उदपानः पुंक्लीबलिङ्गः "नाम्न्युत्तरपदस्य च" ॥ ३ । २ । १०७ ॥ इत्युदादेशः ॥२॥ अन्धयत्यन्धुः "भृमृतृ-" ॥ ( उणा- ७१६ ) ॥ इत्युः ॥ ३ ॥ प्रहरति प्रहिः "नीवीप्रहृभ्यो डित्" ॥ ( उणा- ६१६) ।। इति इः, पुंलिङ्गावेतौ ॥ ४॥ .. नेमी तु तन्त्रिका ॥ १५७ ॥ नीयते जलमनया नेमिः स्त्रीलिङ्गः ॥ १ ॥ तस्य कूपस्यान्ते रज्ज्वादिधारणार्थ त्यत्रं दारु त्रिका तन्त्रिका ॥ २ ॥ ॥ १५७ ॥ नान्दीमुखो नान्दीपटो वीनाहो मुखबन्धने ।. 'नान्या इव मुखमस्य नान्दीमुखः ॥ १ ॥ नान्दीव पटति नान्दीपटः ॥२॥ कूपस्योर्ध्व इष्टकाभिर्विनह्यते वीनाहः पुंक्लीबलिङ्गः, यद्वैजयन्ती- 'वीनाहमस्त्रियाम्' । "धन्युपसर्गस्य-" ॥ ३ । २।८६ ॥ इति दीर्घः ॥३॥ कूपस्य मुखं बध्यतेऽनेन मुखबन्धनं, तत्र ॥ आहावस्तु निपानं स्यादुपकूपे आहूयन्ते पशवः पानाय अस्मिन्नित्याहावः "आहावो निपानम्"॥ ५।३। ४४॥ इत्यलि निपात्यते ॥ १॥ नितरां पिबन्त्यत्र निपानं पुंक्लीबलिङ्गः । कूपस्य समीपे शिलादिबद्धं पशुपानार्थ कूपोद्धृताम्बुस्थानम्, तत्र ॥ २ ॥ अथ दीर्घिका ॥ १५८॥ वापी स्यात् दीर्धेव दीर्घिका ॥ १ ॥ ॥ १५८ ॥ उप्यतेऽस्यां पद्मादि वापिः “कमि. वमि-" ॥ ( उणा-६१८)॥ इति णिदिः, ड्यां वापी ॥ २ ॥ .....क्षुद्रकूपे तु चुरी चुण्ढी च चूतकः । । चोरति चुरिः “नाम्युपान्त्य-"॥५। १ । ५४ ॥ इति कः, यां चुरी ॥१॥ चमन्त्याचमन्त्यस्यां चुण्डिः “ चमेरुच्चातः " ( उणा-६३२)॥इति ढिः, यां 'चुण्डी ॥ २ ॥ श्चोतति चतकः "कीचक-" ॥ ( उणा- ३३ )॥ इत्यके निपात्यते उद्घटिकं घटीयन्त्रं उद्घाटयति प्रकाशयत्यम्भ उद्घाटकम्, उद्घाटनमपि । ऊर्ध्व हन्यतेऽनेनेत्युद्घाट
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy