SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४३६ अभिधानचिन्तामणौ सिकता वालुकाः ____ 'सिकिः सौत्रः' सिक्यन्ते सिकताः "पृषिराजि-" ॥ ( उणा- २०८)॥ इति किदतः, स्त्रीलिङ्गो वा बहुवचनान्तोऽयं यदवोचाम- “वा तु जलौकाप्सरसः सिकता-सुमनःसमाः" (लिङ्गा० २६) इति ॥१॥ वलन्ते वालुकाः “कञ्चुक-" ॥ (उणा- ५७)॥ इत्युके निपात्यते । सिकतानां पृथ्वीकायिकत्वेऽपि नद्यङ्गभूतत्वादप्. कायमध्ये पाठः ॥ २ ॥ बिन्दौ पृषत् पृषतविग्रुषः ॥ १५५ ॥ ... 'बिदु अवयवे' बिन्दति बिन्दुः पुंलिङ्गः "भृमृतृ-" ॥ ( उणा- ७१६ ) ॥ इत्युः, तत्र ॥ १ ॥ पर्षति सिञ्चति पृषत् क्लीबलिङ्गः “द्रुहिवृहि-" ॥ ( उणा८८४) ॥ इति किदत् ॥ २ ॥ "पृषिरजि-" ॥ ( उणा- २०८ ) इति किदते पृषतः ॥ ३ ॥ विरुद्धं पुष्यतेऽनया विद्युत् “क्रुत्संपदादि-"५ । ३ । ११४ ॥ इति क्विप् , विगतः प्रोषोऽस्या इति वा ॥ ४ ॥ ॥ १५५ ॥ जम्बाले चिकिलो पङ्कः कमश्च निषद्वरः । शादः जायते जमति ग्रसते वा जम्बालः, पुंक्लीबलिङ्गः "चात्वाल-" ॥ ( उणा४८०) ॥ इत्याले निपात्यते ॥ १ ॥ अञ्चतीति चिकिलः "स्थाण्डिल-" ( उणा- ४८४ ) ॥ इतीले निपात्यते ॥ २॥ पञ्च्यते विस्तार्यते जालेन पङ्कः पुंक्लीबलिङ्गः, घनि न्यवादित्वात् कत्वम् ॥ ३ ॥ कर्दति निष्पीडितः कर्दमः "सृपृप्रथि-" ॥ ( उणा- ३४७ ) ॥ इत्यमः ॥ ४ ॥ निषीदन्त्यस्मिन्निषद्वरः "कृगश-" ॥ ( उणा- ४४१ ) ॥ इति रट् ॥ ५ ॥ शीर्यतेऽस्मिन् शादः विस्कल्लो देश्यां संस्कृतेऽपि ॥ ६ ॥ हिरण्यबाहुस्तु शोणः .... हिरण्यं वहति हिरण्यबाहुः “मिवहि-" ॥ ( उणा- ७२६ ) ॥ इत्युण् ॥१॥शोणजलत्वात् शोणः ॥ २ ॥ नदे पुनर्वहः ॥ १५६ ॥ भिद्य उद्ध्यः सरस्वांश्च नदति नदः, तत्र ॥१॥ वहति वहः ॥२॥ ॥ १५६ ॥ भिनति कूलानीति भिद्यः ॥ ३ ॥ उज्झत्युदकमुद्ध्यः "कुप्यभिद्योद्ध्य-" ॥ ५। १ । ३९ ।। इति क्यपि साधुः ॥ ४ ॥ सरः प्रसरणमस्त्यस्य सरस्वान् ॥ ५॥ .... द्रहोऽगाधजलो ह्रदः। द्रुह्यति द्रहः, पृषोदरादित्वात् ॥ १॥ अगाधं जलमस्मिन् अगाधजलः ॥२॥ हादति हृदः, पृषोदरादित्वाद् ह्रस्वः ॥ ३ ॥ " .
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy