________________
४ भूमिकाण्डः ।
४३५
त्यते ॥ २॥ वेति वेणिः ड्या वेणी ॥ ३ ॥ ध्रियते जलमनया धारा, भिदादित्वादङि साधुः ॥ ४ ॥ रीयते गच्छति रयः ॥ ५ ॥
घट्टस्तीर्थोऽवतारे . घट्टन्ते चलन्त्यनेन घट्टः ॥ १॥ तरन्त्यनेन तीर्थः, पुंक्लविलिङ्गः "नीनूरमि-" ॥ ( उणा-२२७ ) ॥ इति कित् थः ॥२॥ अवतरन्त्यनेनास्मिन्वाऽवतारः नद्यादीनामवतरणमार्गः तत्र, “अवात् तृस्तृभ्याम्" ॥ ५ । ३ । १३३ ॥ इति घञ् ॥ ३ ॥
अम्बुवृद्धौ पूरः प्लवोऽपि च ॥ १५३ ॥ . अम्बुनो वृद्धिराधिक्यमम्बुवृद्धिस्तत्र, पूरयति कूलयोर्मध्यं पूरः ॥ १॥ प्लवन्तेऽस्मिन् प्लवः ॥ २ ॥॥ १५३ ॥
पुटभेदास्तु वक्राणि पुटं तृणादिसंघातं भिन्दन्ति पुटभेदाः ॥ १ ॥ वञ्चन्ति कुटिलं गच्छन्ति वक्राणि "ऋज्यजि-" ॥ ( उणा- ३८८)॥ इति किद् रः । चक्राणीत्यन्यः ॥२॥
भ्रमास्तु जलनिर्गमाः । भ्राम्यन्ति भ्रमाः, जलं निर्गच्छत्येभिरिति निर्गमा जलपथाः ॥ १ ॥
परिवाहा जलोच्छ्वासाः जलं प्रवृद्ध परिवहति यैर्निर्गममार्गस्ते परिवाहाः “घञ्युपसर्गस्य-" ॥ ३ । २ । ८६ ॥ इति दीर्घत्वे परीवाहाः ॥ १ ॥ जलं प्रवृद्धमुच्छ्वसिति यैस्ते जलोच्छवासाः ॥ २ ॥ - कूपकास्तु विदारकाः ॥ १५४ ॥
कूपप्रतिकृतयः कूपकाः, शुष्कनद्यादौ हि जलार्थ गर्ताः क्रियन्ते, यत् कात्यःविवरान् कूपकानाहुः ॥ १॥ विदारयन्ति मां विदारकाः ॥ २ ॥ १५४ ॥
प्रणाली जलमार्गे प्रणलन्त्यम्भोऽनया प्रणाली त्रिलिङ्गः, जलनिर्गममार्गों मकरमुखादिस्तत्र॥१॥
अथ पानं कुल्या च सारणिः । पीयते वृक्षादिभिरनेन पानम् ॥ १॥ कोलति संस्त्यायत्यम्भसा कुल्या ॥२॥ सरति जलमनया सरणिः "ऋहसू-" ॥ ( उणा- ६३८) ॥ इत्यणिः, बाहुलकाद्दीर्घत्वे सारणिः स्त्रीलिङ्गः ॥ ३ ॥
शेषश्चात्र- नीका तु सारणौ ॥