SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४३४ अभिधानचिन्तामणौ- .. . कवेरस्य जलदेहस्येयं कावेरी ॥ १॥ अर्ध जाह्नवी अर्धजाह्नवी ॥ २ ॥१५०१ करतोया सदानीरा गौरीविवाहे हरहस्तात् प्रदानतो या जाता करतोया ॥ १ ॥ सदा नीरमस्या सदानीरा ॥ २ ॥ चन्द्रभागा तु चन्द्रका । चन्द्रेण भागतो न्यस्ता चन्द्रभागा। 'चन्द्र-भागाभ्यां गिरिभ्यां प्रभवति चान्द्रभागा' इत्येके ॥ १ ॥ चन्द्रं कायति चन्द्रका ॥२॥ वासिष्ठी गोमती तुल्ये वसिष्टस्येयं वासिष्ठी, गौतमीत्यपि ॥१॥ गावो जलानि सन्त्यस्यां गोमती ।।२।। ब्रह्मपुत्री सरस्वती ॥ १५१ ॥ ब्रह्मणः पुत्री ब्रह्मपुत्री ।।१॥ सरः प्रसरणमस्त्यस्याः सरस्वती ॥२॥ १५१ ॥ विपाड् विपाशा वशिष्ठं विपाशितवती विपाट् , स्त्रीलिङ्गः ॥ १॥ विपाशयति संसारपाशान मोचयति स्नानेन विपाशा ॥ २ ॥ आर्जुनी तु बाहुदा सैतवाहिनी । अर्जुनस्येयमार्जुनी ॥१॥ बाहुभिर्दीयते तीर्यते बाहुदा "क्वचित्" ॥ ५। १।१७१ ॥ इति डः, बाहुदेन कार्तवीर्यार्जुनेनावतारितेत्यन्ये ॥ २ ॥ सितैव सैती सा चासौ वाहिनी च सैतवाहिनी ॥ ३ ॥ वैतरणी नरकस्था । विगततरणौ व्यर्के पाताले भवा वैतरणी "भवे" ॥६।३ । १२३ ॥ इत्यण् विगततरणिर्वितरणिर्विनौका ततः खार्थेऽण्वा ॥१॥ नरके तिष्ठति नरकस्था नदीविशेषः ॥ २॥ शेषश्चात्र मुरुदला तु मुरला सुरवेला सुनन्दिनी । चर्मण्वती रतिनन्दी संभेदः सिन्धुसङ्गमः ॥१॥ स्रोतोऽम्भःसरणं स्वतः ॥ १५२ ॥ स्रवति स्रोतः क्लीबलिङ्गः, स्वतोऽकृत्रिममम्भःसरणम् ॥ १ ॥ ॥ १५२ ॥ . __प्रवाहः पुनरोधः स्याद् वेणी धारा रयश्च सः । प्रवहन्त्यनेन प्रवाहः ॥ १॥ वहत्योघः, न्यड्क्वादित्वादविकृतघत्वो निपा
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy