SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४३३ दीर्घिका ॥ ४ ॥ त्रीणि श्रोतांस्यस्यां त्रिश्रोताः स्त्रीलिङ्गः ॥ ५ ॥ जहनुना सगरास्मजेनावताारतत्वात् जोरियं जाह्नवी, जनुना पीता श्रोत्रेण मुक्ता चेति जाह्नवीति लौकिकाः, जनुकन्याऽपि ॥ ६ ॥ मन्दमकति मन्दाकिनी मन्दाका औषधिविशेषाः सन्त्यस्यामिति वा ॥ ७ ॥ भीष्म कुमारं च सूते भीष्मसूः कुमारसूः, स्त्रीलिङ्गाविमौ ॥ ८ ॥ ९ ॥ १४७ ॥ सरितां वरा सरिद्वरा ॥१०॥ विष्णोः पादौ हेतुरस्या विष्णुपदी, विष्णुपादानोत्थितत्वात् “कुम्भपद्यादिः" ॥ ७ । ३ । १४९ ॥ इति साधुः ॥ ११ ॥ सिद्धानां स्वर्गस्य स्वर्गिणां खस्य च आपगा सिद्धापगा, स्वरापगा, स्वापगा, खापगा ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ ऋषीणां कुल्या ऋषिकुल्या ॥ १६ ॥ हिमवतः प्रभवति हैमवती “प्रभवति" ॥ ६ । ३ । १५७ ॥ इत्यण ॥ १७ ॥ स्वर्गे वापी स्वर्वापी ॥ १८ ॥ हरस्य शेखरोऽनया हरशेखरा ॥ १९ ॥ ॥१४८ ॥ यमुना यमभगिनी कालिन्दी सूर्यजा यमी । __ यम्यते यमुना "यम्यजि-" ॥ ( उणा-२८८ ) ॥ इत्युनः ॥ १ ॥ यमस्य भगिनी यमभगिनी ॥ २ ॥ कलिन्दादेरियं कालिन्दी कलिन्दतनयाऽपि ॥ ३ ॥ सूर्याज्जाता सूर्यजा ॥ ४ ॥ यमेन यमलजातत्वाद् यमी ॥५॥ रेवेन्दुजा पूर्वगङ्गा नर्मदा मेखलाद्रिजा ॥ १४९ ॥ रेवते वेगेन गच्छति रेवा ॥ १॥ इन्दोर्जाता इन्दुजा ॥ २ ॥ पूर्व गङ्गा पूर्वगङ्गा ॥३॥ नर्म ददाति नर्मदा, नर्मार्थ सोमवंश्येन पुरूरवसाऽवतारितत्वात् ।।४।। मेकलाद्रेता मेकलाद्रिजा मेकलकन्याऽपि ॥ ५ ॥ १४९ ॥ __गोदा गोदावरी गां द्यति गोदा, गोदन्ते क्रीडन्त्यस्यामिति वा ॥ १ ॥ पयःपूरेण गां पृथ्वी द्यति गोदावरी “मन्वन्-" ।। ५ । १ । १४७ ।। इति वन् “णस्वराघोषाद्वनो रश्च" ।। २ । ४ । ४ ॥ इति ड्यां साधुः ॥ २॥ तापी तपनी तपनात्मजा । . 'तापयति तापिः "स्वरेभ्य इ." ॥ ( उणा-६०६) ॥ ड्यां तापी ॥ १॥ तपति तपनी ॥ २ ॥ तपनस्यात्मजा तपनात्मजा ।। ३ ॥ शुतुद्रिस्तु शतद्रुः स्यात् शु पूजितमाशु वा तुदति शुतुद्रिः "शिग्रुगेझनमेादयः' ॥ ( उणा-८११)॥ इति रौ निपात्यते ॥ १ ॥ वसिष्ठशापभयेन शतधा द्रुतेति शतद्रुः, स्त्रीलिङ्गाविमौ "हरिपीत-" ॥ ( उणा-७४५) ॥ इति डिदुः ॥ २ ॥ कावेरी त्वर्द्धजाह्नवी ॥ १५० ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy