SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४३१ ... . .बुद्बुदस्थासको समौ । बुन्दति बुबुदः जलस्फोटः “कुमुद-" ॥ ( उणा-२४४ ) ॥ इत्युदे निपात्यते ।। १ ॥ तिष्ठति स्थासकः “कीचक-" ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते ॥ २ ॥ मर्यादा कूलभूः । मर्येति सीमार्थेऽव्ययम् , माँ ददाति मर्यादा कूलस्य समुद्रतटस्य भूः कूलभूः ॥ १॥ कूलं प्रपातः कच्छरोधसी ॥ १४३ ॥ तटं तीरं प्रतीरं च कूलत्यावृणोति कूलम् ॥ १॥ प्रपतन्त्यस्मिन् प्रपातः ॥ २ ॥ कच्यते कच्छः "तुदिमदि." ॥ ( उणा-१२४ ) ॥ इति छक् ॥ ३ ॥ रुणद्धीति रोधः क्लीबलिङ्गः "अस्" ॥ ( उणा-९५२.) ॥ इत्यस् ॥ ४ ॥ १४३ ॥ तन्यते तट त्रिलिङ्गः "नमितनि." ॥ [ उणा-१३९ J.॥ इति टोऽन्तलुक्च, तटत्युच्छ्रयते वा ॥ ५ ॥ तीर्यते तीरम् ॥ ६ ॥ प्रतीरं प्रदीपवत् ॥ ७ ॥ पुलिनं तज्जलोज्झितम् । सैकतं च . तत् कूलं च जलेन परित्यक्तं पोलति पुलिनम् , पुंक्लीबीलङ्गः "वृजितुहि." ॥ (उणा-२८३ ) ॥ इति किदिनः ॥ १ ॥ सिकताः सन्त्यस्मिन् सैकतम् , “सिकताशकरात्" ॥ ७ । २ । ३५ ।। इत्यण् ॥ २ ॥ अन्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १४४ ॥ अन्तर्गता आपोऽस्मिन्नन्तरीपम् ॥१॥ द्विधा गता आपोऽत्र द्वीपं पुंक्लीबलिङ्गः "द्वयन्तरनवोपसर्गाद-” ॥ ३ । २ । १०९ ॥ इति समासान्ते सतीपादेशः, जलस्यान्तर्जलं तत्र यत्तटम् ॥ २ ॥ १४४ ।। - तत्परं पारं समुद्रस्य तत्तटं परत्र स्थित पार्यते समाप्यतेऽत्रेति पारं पुंक्लीबलिङ्गः ॥१॥ अवारं त्वर्वाक् समुद्रादेरर्वाक् पार्श्वे तटं न वार्विद्यतेऽस्य अवारं पुंक्लीबलिङ्गः, न वियत इति वा ॥१॥ पात्रं तदन्तरम् ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy