SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ लवर्ण, क्षीरं, दधि, आज्यं, सुरा, इक्षुरसः, स्वादु च वारि येषां ते तथा लवणवारिर्लवणोदः ॥ १ ॥ क्षीरवारिः क्षीरोदः ॥ २ ॥ दधिवारिर्दध्युदः ॥ ३ ॥ आज्यवारिराज्योदः ॥ ५ ॥ सुरावारिः सुरोदः ॥ ६ ॥ इक्षुवारिरिक्षूदः ॥ ६ ॥ स्वादुवारिः स्वादूदः; यदाहुः - " लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयः पयाः । स्वादुवारिरुदधिश्च सप्तमस्तान् परीत्य त इमे व्यवस्थिताः ॥ १ ॥ " इति । तरङ्गे भङ्गवीच्यूयुत्कलिकाः तरति तरङ्गः " पतितमि -” ॥ ( उणा - ९८ ) ॥ इत्यङ्गः, तरः सन् गच्छतीति वा" नाम्नो गमः ॥ ५ । १ । १३१ ॥ इति खड्, तत्र ॥ १ ॥ भज्यते वायुना भङ्गः ॥ २ ॥ ऊयते जलैर्वाचिः स्त्रीलिङ्गः "वेगो डित् ” ॥ ( उणा - ६२८ ) ॥ " ॥ ( उणा-६८९ ) ॥ इतीचिः ॥ ३ ॥ इयर्यूर्मिः पुंस्त्रीलिङ्गः " स्रर्तेरूच्चातः इति मिः ॥ ४ ॥ उत्कलते उत्कलिका " क्रीक लि.” इतीकः ॥ ५ ॥ ४३० ܕܕ वेति वलति वेला ॥ १ ॥ १४२ ॥ डिण्डीरोऽब्धिकफः फेनः ॥ ( उणा- ३८ ) ॥ महति त्विह ॥ १४१ ॥ लहर्युल्लोलकल्लोलाः इह तरङ्गे महति ॥ १४१ ॥ जलं हरति लहरिः, पृषोदरादित्वात्, ड्यां लहरी ॥ १ ॥ ऊर्ध्वं लोलत्युल्लोलः ॥ २ ॥ कल्यते केल्लते वा कल्लोलः “पिञ्छोल-” ॥ [ उणा-४९५ ] ॥ इत्योले निपात्यते; कुत्सितो लोल इत्येके ॥ ३ ॥ आवर्त्तः पयसां भ्रमः । तालूरो वोलकश्चासौ आवर्त्तते मण्डलेन भ्रमति आवर्त्तः अम्भसां भ्रमः ॥ १ ॥ तलति तालूरः ‘“महिकणि-” ॥ ( उणा- ४२८ ) ॥ इति णिदूरः ॥ २ ॥ वोलयत्यन्तर्निमज्जयति वोलकः ॥ ३ ॥ वेला स्याद् वृद्धिरम्भसः ॥ १४२ ॥ डयते जलाघातैर्डिण्डीरः " जम्बीर - " ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते, डिंडीत शब्दमीरयति राति वा ॥ १ ॥ अब्धेः कफ इवाधिक्ये बहिः प्रसादब्धिकफः सागरमलाख्यः, नद्यादौ तूपचारात् ॥ २ ॥ स्फायते फेनः “दिननग्न-" ॥ ( उणा - २६८ ) ॥ इति ने निपात्यते ॥ ३ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy