________________
४ भूमिकाण्डः ।
४२९
आकरो मकराद् रत्नाजलाद् निधि-धि-राशयः । पारमापिपर्ति पारापारः, जपादित्वाद् वत्वे पारावारः, पारमिव अवारमकि कूलमस्य वा, पारमात्रणोतीति वा ॥ १ ॥ सगरपुत्राणामयं तैः खातत्वात् सागरः ॥ २ ॥ अवारमिव पारं परतटमस्याऽवारपारः ॥ ३ ॥ मर्यादास्थितत्वाद् न कुं पिपर्ति अकुपारः, बाहुलकाद् दीर्घः, जपादित्वाद् वत्वेऽकूवारोऽपि ॥ ४ ॥ उदकं धीयतेऽस्मिन् उदधिः “व्याप्यादाधारे" ।। ५। ३ । ८८ ॥ इति किः "उदकस्योदः पेषंधि." ॥३।२।१०४ ॥ इत्युदादेशः ॥ ५ ॥ अणांसि सन्त्यस्य अर्णवः "तमिस्राणवज्योत्स्नाः ” ॥ ७॥ २ । ५२ ॥ इति साधुः ॥ ६ ॥ वीचीमलते धारयति वीचिमाली ॥ ७ ॥ यादसां स्रोतसां वारां नदीनां च ईश : यादईशः, स्रोतईशः, वारीशः, नदीशः, यौगिकत्वाद् यादःपतिरित्यादयः ॥ ८ ॥ ९ ॥१०॥ ॥ ११ ॥ सरांसि जलप्रसरणानि सन्त्यस्य सरस्वान् ॥ १२ ॥ स्यन्दते सिन्धुः पुंस्त्रीलिङ्गः “ स्यन्दिसृजिभ्या-" ॥ ( उणा-७१७) ॥ इत्युः, सिन्धादेशश्च ॥१३॥ उदकानि सन्त्यस्य उदन्वान् “ उदन्वानब्धौ च" ॥ २।१ । ९७ ॥ इति मतौ निपात्यते ॥ १४ ॥ मितं समयादं द्रवति मितद्रुः पुंलिङ्गः " हरिपीतमित." ॥ (उणा-७४५) ॥ इति डिदुः॥ १५ ॥ समुन्दन्ति आर्दीभवन्ति वर्षाकालनद्योऽस्मात् समुद्रः "ऋज्याजि-" ॥ (उणा-३८८) ॥ इति किद् रः, सह मुद्रया मर्यादया वर्तते वा ॥ १६ ॥ १३९ ॥ मकरशब्दाद् रत्नशब्दाच्च पर आकरः, मकराणामाकरो मकराकरः, मकरालयोऽपि एवं रत्नाकरः, रत्नराशिरपि ॥१७॥१८॥ जलशब्दात् परे निध्यादयः जलस्य निधिर्जलनिधिः, जलं धीयतेऽस्मिन् जलधिः, जलानां राशिर्जलराशिः; यौगिकत्वाद् वारिनिधिः, वारिधिः, वारिराशिरित्यादयः ॥ १९ ॥ ॥ २० ॥ २१ ॥ - शेषश्चात्र
समुद्रे तु महाकच्छो दारदो धरणीप्लवः ॥
महीप्रावार उर्वङ्गस्तिमिकोशो महाशयः ॥ १ ॥
द्वीपान्तरा असङ्ख्यास्ते .ते समुद्राः, द्वीपानि अन्तरे येषां ते द्वीपान्तरा असंख्याः संख्यारहिता असंख्याता इत्यर्थः, यदाहुः- "असंख्याता द्वीपसमुद्राः” इति ॥
सप्तैवेति तु लौकिकाः ॥ १४० ॥ प्राहुरिति शेषः । लौकिका मिथ्यादृष्टयो गतानुगतिकाः सप्तैव समुद्रा इति प्राहुः ॥ १४ ॥
तानाहलवणक्षीरदध्याज्यसुरेक्षुस्वादुवारयः ।