SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणी "स्फटिकास्तु त्रयस्तेषामाकाशस्फटिको वरः । द्वौ क्षीरतैलस्फटिकावाकाशस्फटिकस्य तु । भेदौ सूर्यकान्तश्च चन्द्रकान्तश्च तत्र च ॥ १ ॥ इति ॥ १ ॥ शुक्तिजं मौक्तिकं मुक्ता मुक्ताफलं रसोद्भवम् ॥ १३४ ॥ शुक्तेर्जायते शुक्तिजम्, शुक्तिरुपलक्षणं हस्तिमस्तकाद्युद्भवमपि यदाह - " हस्तिमस्तदन्तौ तु दंष्ट्रा शुनवराहयोः । मेघ भुजङ्गमो वेणुर्मत्स्यो मौक्तिकयोनयः " ॥ १ ॥ इति ॥ १ ॥ मुक्ता एव मौक्तिकम्, विनयादित्वाद् इकण् ॥ २ ॥ मुच्यतेशुक्तिभिर्मुक्ता ॥ ३ ॥ मुक्ता फलमिव मुक्ताफलम् ॥ ४ ॥ रसाद् अम्भसः उद्भवति रसोद्भवम् ।। ५ ।। १३४॥ ॥ समाप्तोऽयं पृथ्वीक्ायः ॥ .४२६ , अथ अप्कायमाह नीरं वारि जलं दकं कमुदकं पानीयमभ्मः कुशं तोयं जीवनजीवनीयसलिलाणस्यम्बु वाः संवरम् । क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसी कीलालं भुवनं वनं घनरसो यादो निवासोऽमृतम् ॥ १३५ ॥ कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् । Sma " नीयते नयति वा नीरम्, “ ऋज्यजि " ॥ ( उणा - ३८८ ) ॥ इति किद्रः ॥ १ ॥ वार्यते बारि क्लीबलिङ्गः, " स्वरेभ्यः इः ॥ ( उणा - ६०६ ) ॥ २ ॥ जलति जाड्यं गच्छति जलम् ॥ ३ ॥ द्यति तृष्णां दकम्, " कीचक"" 11 ( उणा - ३३ ) ॥ इति अके निपात्यते ॥ ४ ॥ कायति कम्, “क्वचित्” ॥५।१।१७१॥ इति डः ॥ ५ ॥ उनत्ति उदकम्, “धूधून्दि " ॥ ( उणा - २९ ) ॥ इति किद् अकः ॥ ६ ॥ पीयते पानीयम् ॥ ७ ॥ अमति निम्नप्रदेशमम्भः क्लीबलिङ्गः, “ अमेर्भहौ चान्तौ " ॥ ( उणा - ९६२ ) ॥ इति अस् ॥ ८ ॥ कुश्यति भिनत्ति कुशम्, कुं श्यतीति वा ॥ ९ ॥ तुदति तुयते वा तोयम्, “शि. क्यास्य ॥ ( उणा - ३६४ ) ॥ इति ये निपात्यते ॥ १० ॥ जीव्यते अनेन जीवनम् ॥ ११ ॥ बाहुलकाद् करणेऽपि अनीये जीवनीयम् ॥ १२ ॥ सरति "" "" "" सरिरम्, मदमन्द- ॥ ( उणा - ४१२ ) इति इरः, ऋफिडादित्वाद् लत्वे सलिलम् ॥ १३ ॥ अर्थते तद् इति अर्णः, " अर्तीण्भ्याम् " ॥ ( उणा९६९ ) ॥ इति नस्, ऋणोतीति वा " अस् " ॥ ( उणा - ९५२ ) ॥ इति अस् ।।१४॥ अमति अम्बु क्लीबलिङ्गौ, “कम्यमिभ्याम् ” ॥ ( उणा-७९९ ) ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy