________________
४ भूमिकाण्डः ।
४२५
नीलवर्णो मणिनीलमणिः ॥ १॥ मणीनामिन्द्रो नीलश्च मणिरिन्द्रनील: पुंक्लीबलिङ्गः, “ इन्द्रनीलं महानीलम् ” इति क्लीबे वैजयन्तिः ॥ २ ॥
सूचीमुखं तु हीरकः ।
बरारकं रत्नमुख्यं वज्रपर्याय नाम च ॥ १३१ ॥ सूच्या इव मुखमस्य सूचीमुखम् ॥ १॥ हरति मनो हीरः, “ खुरक्षुर-" ॥ (उणा-३९६) ॥ इति रे निपात्यते, के हीरकः पुंलिङ्गः, वाचस्पतिस्तु- “अथाऽस्त्री हीरकः” इति क्लीवेऽप्याह ॥ २ ॥ वरा अरका अस्मिन् वरारकम् ॥ ३ ॥ रत्नेषु मुख्यं रत्नमुख्यम् ॥ ४ ॥ वज्रपर्याया दम्भोलिप्रभृतयो नामानि अस्य वज्रपर्यायनाम तेन वज्रम् , दम्भोलिरित्यादि ॥ ५ ॥ १३१ ॥
विराटजो राजपट्टो राजावर्तः विराटदेशे जातो विराटजः, वैराटोऽपि ॥ १ ॥ पटेन राजते राजपट्टः ॥२॥ आवर्तेन राजते राजावर्तः, राजदन्तादित्वात् पूर्वनिपातः ॥ ३ ॥
अथ विद्रुमः ।
रक्ताको रक्तकन्दश्च प्रवालं हेमकन्दलः ॥ १३२ ॥ विशिष्टो द्रुमो विद्रुमः, विद्रवति अब्धौ वा, "रुक्मग्रीष्म-" ॥ ( उणा-- ३४६) ॥ इति मे निपात्यते, विन्दतेः “कुमुद"- ॥ ( उणा-२४४ ) ॥ इति उमे वा ॥ १॥ रक्तः अङ्कोऽस्य रक्ताङ्कः ॥ २ ॥ रक्तश्चासौ कन्दश्च रक्तकन्दः ॥ ३ ॥ प्रवलति प्रवालं पुंक्लीबलिङ्गः, ज्वलादित्वाद् णः, प्रवते अब्धेरूचे वा "चात्वाल" ॥ ( उणा- ४४० )॥ इति निपात्यते ॥ ४ ॥ हेनः कन्दल इव हेमकन्दलः ॥ ५ ॥ १३२ ॥
. सूर्यकान्तः सूर्यमणिः सूर्याश्मा दहनोपलः ।
सूर्यस्य कान्तो वल्लभः सूर्यकान्तः ॥ १ ॥ सूर्यप्रियो मणिः सूर्यमणिः ॥ २ ॥ सूर्यस्य अश्मा सूयाइमा ॥ ३ ॥ दहनजननोपलो दहनोपलः ॥ ४ ॥
. चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १३३ ॥ ___ चन्द्रस्य कान्तः चन्द्रकान्तः ॥ १॥ चन्द्रस्य मणिः चन्द्रमाणिः ॥ २॥ चन्द्रस्य अयं चान्द्रः ॥ ३ ॥ चन्द्रस्य उपलः चन्द्रोपलः ॥ ४ ॥ १३३ ॥
क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ ।। क्षीरधवलः स्फटिकः क्षीरस्फटिकः, तैलकान्तिः स्फटिकः तैलस्फटिकस्ताभ्यामन्यौ भिन्नवौँ इमौ सूर्यकान्त-चन्द्रकान्तौ द्वौ अपि आकाशस्फटिकाख्यौ इत्यर्थः, यदं वाचस्पतिः