SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४२३ ४ भूमिकाण्डः । विस्रस्येव गन्धोऽस्य विस्रगन्धि ॥ ४ ॥ खर्जति खर्जूरम् ॥ ५॥ वंशपत्राभं वंशपत्रकम् ॥ ६॥ १२४ ॥ आलाति शोभा आलम् , अलन्ति भूषयन्ति अनेन वा ॥७॥पोतयति पीतनम् , पीतं वर्ण नयतीति वा, "क्वचित्" ॥५।१।१७१॥ इति डः ॥ ८ ॥ तालं हरितालैकदेशो भीमवत् , ताडयति इति वा ॥९॥ गोदन्तसदृशत्वाद् गोदन्तम् , गोपित्तमपि ॥ १० ॥ नटानां मण्डनं नटमण्डनम् ॥११॥ वङ्गस्य अरिङ्गारिः ॥ ११ ॥ लोमानि हरति लोमहृत् ॥ १३ ॥ अथ मनोगुप्ता मनःशिला ॥ १२५ ॥ · करवीरा नागमाता रोचनी रसनेत्रिका । नेपाली कुनटी गोला मनोहा नागजिहिका ॥ १२६ ॥ मनोऽभिधा गुप्ता मनोगुप्ता ॥१॥ मनोवाच्या शिला मनःशिला, शिला अपि ॥ २ ॥ १२५ ॥ करे विशेषेण ईर्यते करवीरा ॥ ३ ॥ नागस्य माता नागमाता ॥ ४ ॥ रोचते रोचनी ॥ ५॥ रसस्य नेत्री रसनेत्री, के रसनेत्रिका ॥ ६ ॥ नेपालदेशभवत्वाद् अभेदेन नेपाली, नैपाली अपि ॥ ॥ कौ नटति कुनटी ॥८॥ गां लाति, गुडति वा गोला ॥ ९ ॥ मनःशब्देन हूयते मनोहा ॥१०॥ नागजिह्वाप्रतिकृति गजिबिका ॥ ११ ॥ १२६ ॥ सिन्दूरं नाग नागरक्तं शृङ्गारभूषणम् । चीनपिष्टं स्यन्दते सिन्दूरम् , “सिन्दूर-” ॥ (उणा-४३०)॥इति ऊरे निपात्यते ॥१॥ नागात् शेषाद् जायते नागजम् ॥ २ ॥ नागेन रज्यते नागरक्तम् ॥३॥ शृङ्गारस्य भूषणं शृङ्गारभूषणम् , शृङ्गारमपि ॥ ४ ॥ चीनस्य नागस्य पिष्टं चीनपिष्टम् ॥ ५॥ ___ हंसपादकुरुविन्दे तु हिङ्गुलः ॥ १२७ ॥ हंसपाद इव रक्तो हंसपादः॥१॥ कुरून् विन्दति कुरुविन्दम् ,"निगवादे म्नि" ॥५।१।६१।। इति शः ॥२॥ हिनोति हिङ्गुलः, “कुमुल-" ॥ (उणा-४८७) ॥ इति उले निपात्यते, पुंस्पयम् , वाचस्पतिस्तु-“हिङ्गुलस्त्वस्त्रियाम्" इति क्लयबेऽप्याह, हिङ्गुलुरपि ॥ ३ ॥ १२७ ॥ शिलाजतु स्याद् गिरिजमर्थ्य गैरेयमश्मजम् । शिलातः स्रवजत्वाकृतिः शिलाजतु, क्लीबलिङ्गः ॥ १॥ गिरेर्जायते गिरिजम् ॥ २ ॥ अर्थ्यते रसायनार्थिभिः अर्थ्यम् ॥ ३ ॥ गिरौ भवं गैरेयम् , नद्यादित्वाद् एयण् ॥ ४ ॥ अश्मनो जायते अश्मजम् ॥ ५ ॥ क्षारः काचः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy