SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । खस्य गगनस्य मेघस्याम्बुदस्य आख्या अस्य ख-मेघाख्यम् , तेन खम् , गगनम् , मेघ. मम्बुदमित्यादि सिद्धम् ॥३॥४॥ गिरिजाबा गौर्या मलं गिरिजामलं तत्र, गिरिज च तदमलं चेति वा ॥५॥ स्रोतोऽञ्जनं तु कापोतं सौवीरं कृष्णयामुने ॥ ११७ ॥ यमुनास्रोतसोऽञ्जनं स्रोतोऽञ्जनम् ॥ १ ॥ कपोतस्येदं कापोतम् , कपोतवर्ण वा ॥२॥ सुवीरदेशे भवं सौवीरम् ॥ ३॥ कृष्णं वर्णेन ॥४॥ यमुनायां भवं यामुनम् ॥ ५॥ ११७ ॥ अथ तुत्थं शिखिग्रीवं तुत्थाजनमयूरके । तुदति अक्षिरोगांस्तुत्थम् , " नीनूरमि-" ॥ ( उणा- २२७ ) ॥ इति कित्थः ॥ १ ॥ शिखिग्रीवाभं शिखिग्रीवम् ॥ २ ॥ अज्यतेऽनेनाऽजनं तुत्थं च तदञ्जन च तुत्थाजनम् ॥ ३ ॥ मयूरस्य तुल्यं मयूरकम् ॥ ४ ॥ मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् ।। ११८ ॥ मूषायां तुत्थं मूषातुत्थम् ॥ १ ॥ कांस्यवन्नीलं कांस्यनीलम् ॥ २ ॥ हेमव. तारं हेमतारम् ॥ ३ ॥ वितुदत्यक्षिरोगान् वितुन्नम् , के वितुनकम् ॥४॥११८॥ स्यात्तु कर्परिकातुत्थममृतासङ्गमञ्जनम् । कल्पते रोगान् जेतुं कर्परिका, कर्परिकालक्षणं तुत्थं कर्परिकातुत्थम् ॥ १ ॥ अमृतमासजत्यनेनाऽमृतासङ्गम् ॥ २ ॥ अज्यते चक्षुरनेनाऽजनम् ॥ ३ ॥ रसगर्भ तायशैलं तुत्थे दार्वीरसोद्भवे ॥ ११९ ॥ दारिसस्य गर्भोऽत्र रसगर्भम् ॥१॥ तार्यशैले कुलूतायां भवत्वात् तार्यशैलम् , दावी दारुहरिद्रा तस्या रसः क्वाथस्तदुद्भवे तुत्थे रसजात रसाग्रे अपि ॥२॥११९॥ पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च । पुष्परूपमञ्जनं पुष्पाञ्जनम् ॥ १॥ रीते यमानायाः पुष्पाभं मलं रीतिपुष्पम् ॥ २ ॥ पुष्पति पुष्पकम् , स्वार्थेऽणि पौष्पकम् ॥ ३ ॥ पुष्पं केतुरस्य पुष्पकेतु ॥ ४ ॥.. माक्षिकं तु कदम्बः स्याचक्रनामाऽजनामकः ॥१२० ॥ माक्षिकं मधु तद्वर्ण माक्षिकम् ॥ १ ॥ कदम्बकुसुमाकारत्वात् कदम्बः ॥२॥ चक्रस्य नाम अस्य चक्रनामा ॥ ३ ॥ अजस्य विष्णोर्नाम अस्य अजनामकः, अत एव वैष्णवोऽपि ॥ ४ ॥ १२० ॥ ताप्यो नदीजः कामारिम्तारारिर्विटमाक्षिकः । ५४
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy