SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४२० अभिधानचिन्तामणौ- . आ इयर्ति आरस्तस्य कूट आरकूटः, पुंक्लीबलिङ्गः, कश्चिदमुं पित्तलापर्याय माह ॥ १ ॥ कपिवणे लोहं कपिलोहम् ॥ २ ॥ सुवर्णप्रतिकृतिः सुवर्णकम् ॥ ३॥११३ ॥ रीयते द्रवति रिरी, रीरी, "खुरक्षुर-" ॥ (उणा- ३९६ ) ॥ इति रे निपात्यते ॥ ४ ॥ ५ ॥ रिणन्त्येनां रीतिः ॥ ६ ॥ पीतवर्ण लोहं पीतलोहम् ॥ ७ ॥ शोभनं लोहं सुलोहम् ॥ ७ ॥ ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥ ११४ ॥ ब्रह्मण इयं ब्राह्मी ॥ १ ॥ राजते राज्ञी ॥ २ ॥ कपिला वर्णेन ॥३॥ ब्रह्मणो रीतिब्रह्मरीतिः ॥ ४ ॥ महती चासावीश्वरी च महेश्वरी ॥ ५ ॥ ११४ ॥ . . कांस्ये विद्युत्प्रियं घोषः प्रकाशं वङ्ग-शुल्वजम् ।। घण्टाशब्दमसुराहरवणं लोहजं मलम् ॥ ११५ ॥ कंसाय इदं द्रव्यं कंसीयं तस्य विकारः कांस्यम् , “ कंसीयायः"॥ ६ । २। ४१ ॥ इति साधुः, कंसमेव वा भेषजादित्वाट ट्यण् तत्र ॥ १ ॥ विद्युतः प्रियं विद्युत्प्रियम् ॥ २॥ घोषति घोषः ॥ ३ ॥ प्रकाशते प्रकाशम् ॥ ४ ॥ वङ्ग-शुल्वाभ्यां जायते वङ्गशुल्वजम् ॥ ५॥ घण्टाया इव शब्दोऽस्य घण्टाशब्दम् , घण्टायां शब्दोऽस्येति वा ॥६॥ असुरस्य कंसनाम्न आह्वाऽस्य असुराडं कंसमित्यर्थः ॥ ७ ॥ रौति रवणम् ॥ ८ ॥ लोहाभ्यां जायते लोहनम् ॥९॥ मलोऽस्त्यस्य मलम् ॥ १० ॥ ११५ ॥ सौराष्ट्रके पञ्चलोहं सुराष्ट्रायां भवं सौराष्ट्र के सौराष्ट्रकम् , तत्र ॥ १ ॥ पञ्च ताम्र-रीति-त्रपुसीसक कालायसलक्षणानि लोहान्यस्मिन् पञ्चलोहम् ॥ २ ॥ वर्तलोहं तु वर्तकम् । वर्तते आवर्तते वर्तम् , तच्च तद् लोहं च वर्तलोहम् ॥ १॥ वर्तते आवर्तते वर्तकम् ॥ २ ॥ पारदः पारतः सूतो हरबीजं रसश्चलः ॥ ११६ ॥ पारं ददाति पारदः, पारं तनोति पारतः, “ क्वचित्" ॥ ५। १ । १७१ ॥ इति डः, अर्थप्राधान्यात् पुंक्लीबलिङ्गावेतौ ॥१॥२॥ सूते हेमायुषी सूतः, शिवात् प्रसूतो वा ॥ ३ ॥ हरस्य बीजं हरबीजम् ॥ ४ ॥ रस्यते रसायनार्थिभिरिति रसः ॥५॥ चलोऽस्थयात् , चपलोऽपि ॥ ६ ॥ ११६ ॥ अभ्रकं स्वच्छपत्रं खमेघाख्यं गिरिजामले । अभ्रप्रतिकृतिरभ्रकम् ॥ १॥ स्वच्छानि पत्राण्यस्य स्वच्छपत्रम् ॥ २॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy