SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ .४२ अभिधानचिन्तामणौ कित् , नलुक् च । “मघा अकृत्तिका बहौ"(लिङ्गा-२६) इति स्त्रीलिङ्गौ, नित्यं बहुवचनान्तौ चैतौ ॥ २ ॥ अग्निर्देव आसामग्निदेवाः ॥ ३॥ . ब्राह्मी तु रोहिणी। ब्रह्मा देवतास्या ब्राह्मी ॥१॥ रोहन्ति कार्याण्यस्यां रोहिणी । "दुहृवृहि-"॥ (उणा-१९४) ॥ इत्यादिना बहुवचनादिणे "रेवतरोहिणाझे" ॥२॥४॥२६॥ इति डीः ॥ २॥ मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ २३ ॥ मृगस्येव शीर्षमस्य मृगशीर्षम् ॥१॥ तथा, मृगशिरः खे ताराणां तथावस्थानात् पुंक्लीबलिङ्गोऽयम् , यद्वाचस्पति:-सौम्यं मृगशिरोऽस्त्रियाम् ॥ २॥ मृग एव मार्गः प्रज्ञादित्वादण् ॥ ३॥ चन्द्रमा देवताऽस्य चान्द्रमसम् ॥ ४ ॥ मृगाकारत्वातू मृगः ॥ ५॥२३॥ इल्वलास्तु मृगशिरःशिरस्थाः पञ्च तारकाः । इलन्ति गच्छन्ति इल्वलाः स्त्रीलिङ्गः । “तुल्वलेल्वलादयः"॥ (उणा-५००)। इति निपातनम् , इन्वन्ति प्रीणन्ति इन्वका इत्यपि ॥१॥ आर्द्रा तु कालिनी रौद्री अर्दति हिनस्ति कार्यमिति आर्दा "चिजि-"। (उणा-३९२) ॥ इत्यादिना रो दीर्घश्च ॥१॥ कालोऽस्यामस्ति कालिनी ॥२॥ रुद्रो देवताऽस्या रौद्री ॥३॥ पुनर्वसू तु यामकौ ॥२४॥ आदित्यौ च पुनर्वखनयोः पुनर्वसू पुंलिङ्गः ॥१॥ यमके यमले भवौ यामकौ युग्मरूपावित्यर्थः ॥ २ ॥ २४ ॥ अदितिर्देवता अनयोरादित्यौ ॥३॥ पुष्यस्तिष्यः सिध्यश्च गुरुदैवतः । पुष्यन्ति त्वेषन्ति सिध्यन्ति च कार्याण्यत्र पुष्यः, तिष्यः, सिद्धयः । “कुप्यभिद्य-"॥५॥१॥३९॥ इत्यादिना क्यबन्ता निपात्यन्ते ॥३॥ गुरुर्दैवतमस्य गुरुदैवतः॥४॥ सार्थ्यऽश्लेषा सी देवताऽस्याः सापी ॥१॥ न विद्यते श्लेषोऽस्यां जातापत्यस्येत्यश्लेषा । पुंस्त्रीलिङ्गः ॥२॥ मघाः पित्र्याः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy