________________
४१८
अभिधानचिन्तामणौ-..
स्वर्ण हेम हिरण्यहाटकवसून्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरैगाङ्गेयरुक्माण्यपि ॥ १०९ ॥
कलधौतलौहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे । तपनीयचामीकरचन्द्रभर्मा
ऽर्जुननिष्ककार्तस्वरकर्बुराणि ॥ ११० ॥ जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् । ... - शोभनो वर्णोऽस्य सुवर्णम् , पृषोदरादित्वाद् उलोपे स्वर्णम् , पुंक्लीबलिङ्गावेतौ ॥१॥ २ ॥ हिनोति हेम, क्लीबलिङ्गः, “मन्" ॥ ( उणा-९११) ॥ इति मन् , "क्षुहिन्यां" ॥ ( उणा-३४१ )॥ इति मे हेमम् , अकारान्तः पुंक्लीबलिजोऽपि ॥३॥ हियते हिरण्यम् , पुंक्लीबलिङ्गः, “हिरण्यपर्जन्य." ॥ (उणा-३८०)॥ इत्यन्ये निपात्यते ॥ ४ ॥ हटति दीप्यते हाटकम् , हाटकाकरभवत्वाद् वा, क्लीबलिङ्गोऽयम् , पुंस्यपि वाचस्पतिः, यदाह- "हाटकमस्त्रियाम् , हाटका करसंभूतं पलाशकुसुमच्छविः ॥५॥ वसत्याकरे वसु, क्लीबलिङ्गः ॥ ६॥ अष्टसु लोहेषु पदं प्रतिष्ठाऽस्याऽष्टापदम् , पुंक्लीबलिङ्गः, "नानि" ॥३।२।७५॥ इति दीर्घः ॥७॥ कञ्चते दीप्यते काञ्चनम् , “विदनगगन-" ॥ ( उणा- २७५ ) ॥ इत्यने निपात्यते ॥८॥ कल्यते कल्याणम् , “कल्याणपर्याण-" ॥ ( उणा-१९३ ) ॥ इत्याणे निपात्यते ॥ ९ ॥ कनति दीप्यते कनकम् , “दृकृन." ॥ ( उणा-२७ )॥ इत्यकः ॥ १० ॥ महच्च तद् रजतं रजकं च महारजतम् ॥ ११॥ रायते उदारै राः, पुंस्त्रीलिङ्गः, "रात:" ॥ ( उणा-८६६)॥ इति डैः ॥ १२ ॥ गङ्गाया अपत्यं गाङ्गेयम् , शुभ्रादित्वादेयण ॥ १३ ॥ रोचते रुक्मम् , "रुक्मग्रीष्म-" ॥ ( उणा-३४६) ॥ इति मे निपात्यते ॥ १४ ॥ १०९ ॥ कलं सुवर्णकालिका तद्धौतमस्मिन् कलधौतम् ॥ १५ ॥ लोहेषूत्तमं लोहोत्तमम् ।। १६ ॥ वह्नेबीजं वह्निबीजम् , यदाहः-"अग्नेरपत्यं प्रथमं सुवर्णम्" इति ॥ १७ ॥ गरुडस्येदं गारुडम् ॥ १८ ॥ गिरौ जातं गैरिकम् ॥ १९ ॥ जातं रूपमस्य जातरूपमकृतकरूपं सुद्रीदेशजम् ॥२०॥ तप्यते तपनीयम् ॥ २१ ॥ चमीकराकरे भवं चामीकरम् ॥ २२ ॥ चन्दते चन्द्रः, पुक्लीबलिङ्गः ॥२३॥ भ्रियते भर्म, क्लीबलिङ्गः, “मन्' । ( उणा-९११)॥ इति मन् ॥२४॥ अयंते पुण्यैरर्जुनम् ॥ २५ ॥ निषीदति मनोऽत्र निष्कः, पुंक्लीबलिङ्गः, “निष्कतुरुष्क-" ॥ ( उणा-२६ ) ॥ इति के निपात्यते ॥ २६ ॥ कृतस्वराऽऽकरे भवं कार्तस्वरम् ॥ २७ ॥ कर्वति लोहमध्ये दृप्यति कर्बुरम् , "वाश्यसि." ॥ (उणा-४२३) ॥ इत्युरः, नानारूपत्वाद् वा ॥२८॥११०।। जम्बूदीपे जम्बूफल. रसोत्थनद्यां जातं जाम्बूनदम् , यत्पुराणम् -