________________
४१४
भभिधानचिन्तामणौ- .
अखातमकृतकं यद् बिलं तत्र गृहति गाह्यते वा गह्वरम् , पुंक्लीबलिङ्गः, "तीवर." ॥ (उणा-४४४)॥ इति वरटि निपात्यते, गह्वाः सन्यत्र वा, अश्मादित्वाद् रः ॥.१ ॥ गुह्यतेऽनया गुहा, भिदादित्वादङ् ॥ २ ॥ ९९ ॥
द्रोणी तु शैलयोः सन्धिः द्रवन्त्यस्यां द्रोणी, द्रुणतीति वा, पर्वतयोः संश्लेषभूमिः ॥ १॥
पादाः पर्यन्तपर्वताः । पादा इव अधःस्थत्वाद् धारणत्वाच्च पादाः, मुख्यशैलान्ते क्षुद्रपर्वताः ॥१॥
दन्तकास्तु बहिस्तिर्यप्रदेशा निर्गता गिरेः ॥ १० ॥ दन्तप्रकृतयो दन्तकाः ॥ १॥
अधित्यकोर्ध्वभूमिः स्यात् .. पर्वतमधिरूढा ऊर्श्वभूमिरधित्यका, “उपत्यकाधित्यके” ॥ ७॥१।१३१॥ इति साधुः ॥१॥
.. अधोभूमिरुपत्यका। पर्वतस्याऽऽसन्ना अधोभूमिरुपत्यका ॥ १ ॥
स्नुः प्रस्थं सानुः ।
नौत्यम्भः स्नुः पुंलिङ्गः, पृषोदरादित्वात् ॥ १॥ प्रतिष्ठन्तेऽस्मिन् समभूभागत्वात् प्रस्थम् ॥ २ ॥ सनति मृगादीन् , सुनोति सुखं वा सानुः, “कृवापाजि-" ॥ ( उणा- १)॥ इत्युण् , पुंक्लीबलिङ्गावेतौ ॥ ३ ॥
अश्मा तु पाषाणः प्रस्तरो दृषद् ॥ १०१ ॥
मावा शिलोपलः अश्नुतेऽश्मा पुंलिङ्गः, “मन्” ॥ ( उणा- ९११ ) ॥ इति मन् ॥ १॥ पषति बाधते पादौ पाषाणः, “पषो णित्" ॥ ( उणा-१९२) ॥ इत्याणः ॥२॥ प्रस्तार्यते प्रस्तरः ॥ ३ ॥ दृणाति दीर्यते वा दृषत् , स्त्रीलिङ्गः, "द्रो ह्रखश्च" ॥ ( उणा- ८९८)। इति सद् ॥४॥१०१॥ “प्रहेरा च" ॥ (उणा-९०५)॥ इति वन् , पुंलिङ्गः ॥५॥ शिलति शिला ॥ ६ ॥ उप्यते उपलः, पुंक्लीवलिङ्गः, "तृपिवपि." ॥ ( उणा- ४६८) ॥ इति किदलः ॥ ७॥
गण्डशैलाः स्थूलोपलाश्च्युताः । ..........
शैलस्य गण्डा इव गण्डाः, शैला इव वा गण्डशैलाः, गिरेः स्थूलाऽश्मानश्च्युता भूकम्पादिना गलिताः ॥१॥