SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्ड: । "" लोकालोकश्चक्रवाल: अन्तर्लोक्यतेऽस्य, बाह्यं च न लोक्यतेऽनर्कत्वात् लोकालोकः, यत्कालिदासःप्रकाशश्वान्धकारश्च लोकालोक इवाऽचलः " इति ॥ १ ॥ चक्राकारेण वलति चाडते वा चक्रवाल:, आवेष्ट्य द्वीपान्धीन् स्थितो ह्यसाविति प्रसिद्धिः ॥ २ ॥ अथ मेरुः कर्णिकाचलः ॥ ९७ ॥ रत्नसानुः सुमेरुः खः-खर्गि - काञ्चनतो गिरिः । ४१३ मिनोति क्षिपत्युच्चत्वाज्ज्योतींषीति मेरुः, चिनीपी- " ॥ ( उणा८०६ ) ॥ इति रुः ॥ १ ॥ जम्बूद्वीपपद्मस्य कर्णिकाभूतोऽचलः कर्णिकाचलः ||२||९७॥ रत्नानि सानुष्वस्य रत्नसानुः ||३|| सुमेरुमेरोरभिन्नार्थः, इन्द्रो महेन्द्रवत् ॥ ४ ॥ स्वः स्वर्गि-काञ्चनशब्देभ्यो गिरिः- स्वर्गिरिः स्वर्गिरिः ॥ ५ ॥ स्वर्गिणां गिरिः स्वfर्गगिरिः ॥ ६ ॥ काञ्चनस्य गिरिः काञ्चनगिरिः ॥७॥ सर्वाणि पर्वतनामानि पुंलिङ्गानि ॥ " ८८ शृङ्गं तु शिखरं कूटं "" शीर्यते निघातेन शृङ्गम्, शृङ्गशा- ॥ ( उणा - ९६ ) ॥ इति गे निपात्यते ॥ १ ॥ शाखति व्याप्नोति गगनं शिखरम्, “शाखेरिदेतौ चातः” ॥ (उणा) ॥ इत्यरः ॥ २ ॥ कूट्यते दह्यतेऽर्क- दावाभ्यां कूटम्, त्रयः पुंक्लीबलिङ्गाः ॥ ३ ॥ ४०० प्रपातस्त्वतो भृगुः ॥ ९८॥ प्रपतन्त्यस्मात् प्रपातः, “ व्यञ्जनाद् घञ् " ॥ ५|३|१३२॥१ ॥ तटशून्योऽतटः ॥ २ ॥ भृज्यते दवेन भृगुः, पुंलिङ्गः " स्पशिभ्रस्जेः स्लुक् च ” ॥ ( उणा७३१ ) ॥ इति किदुः | " प्रपत्यते यस्मात् तटात् स भृगुः ” इत्येके ॥ ३ ॥ ९८ ॥ मेखला मध्यभागोऽद्रेर्नितम्बः कटकश्च सः । -४९७ ) u अद्रेर्मध्यभागो मिनोति मेखला, "मिगः खलश्चैच्च” ॥ ( उणा - ४ ॥ ( उणा - ३१७) | इति खलः ॥ १ ॥ नितरां तनोति नितम्बः, “वलिनितनिभ्यां इति बः ॥ २ ॥ कटकत्यावृणोति कटकः, पुंक्लीबलिङ्गः ॥ ३ ॥ दरी स्यात् कन्दरः दीर्यते दरी ॥ १ ॥ कन्दन्ते विप्लवन्तेऽस्मिन् कन्दरः, त्रिलिङ्गः, "ऋच्छि चटि-” ॥ ( उणा-३९७ ) ॥ इत्यरः, कं दीर्यते, कं दृणातीति वा, कन्दाः सन्त्यत्र वा, अश्मादित्वाद् रः ॥ २ ॥ अखातबिले तु गह्वरं गुहा ॥ ९९ ॥ ५३
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy