SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ४१२ अभिधानचिन्तामणौ निपात्यते ॥ १ ॥ जलेन वाडते आप्लावयति जलवालकः ॥ २ ॥ ९५ ॥ शत्रुञ्जयो विमलाद्रिः शत्रून् जयति शत्रुञ्जयः, “भृत्रुजि " ॥ ५।१।११२ ॥ इति खः ॥ १ ॥ विमलश्चासावद्रिश्च विमलाद्रिः ॥ २ ॥ इन्द्रकीलस्तु मन्दरः । इन्द्रेण कील्यते इन्द्रकीलः ॥ १ ॥ मन्द्यते मन्दरः, "ऋच्छिवटि " ॥ (उणा - ३९७) ॥ इत्यरः सुवेलः स्यात् त्रिमुकुटस्त्रिकूटस्त्रिककुच्च सः ॥ ९६ ॥ शोभना वेलाऽस्य आसन्नपयोधित्वात् सुवेलः ॥ ॥ त्रयो मुकुटभूताः कूटाअस्य त्रिमुकुटः ॥ १ ॥ त्रीणि कूटान्यस्य त्रिकूटः ॥ ३ ॥ त्रीणि ककुदानि ककुदाकाराणि शिखराण्यस्य त्रिककुत्, “त्रिककुद् गिरौ” ॥ ७ । ३ । १६८ ॥ इति ककुदादेशः ॥ ४ ॥ ९६ ॥ उज्जयन्तो रैवतकः उज्जयतीति उज्जयन्तः, “तृजि - " ॥ ( उणा - २२१ ) ॥ इत्यन्तः ॥ १ ॥ वन्यते स्म वतः राया सुवर्णेन वतो रैवतः के रैवतकः, रैवताः सन्त्यत्रेति वा अरीहणादित्वाच्चातुरर्थिकोऽण् ॥ २ ॥ सुदारुः पारियात्रकः । शोभनानि दारूण्यस्मिन् सुदारुः ||१|| परितो यात्रायां भवः स्वाऽऽरोहत्वात् पारियात्रकः ॥ २ ॥ लोकालोकश्चक्रवाल: अन्तर्लोक्यते अस्य बाह्यं च न लोक्यतेऽनर्कत्वाद् लोकालोकः, यत्कालिदासः" प्रकाशश्चान्धकारश्च लोकालोक इवाऽचलः” इति ॥ १ ॥ चक्राऽऽकारेण वलति वाडते वा चक्रवालः, आवेष्ट्य द्वीपान्धीन् स्थितो ह्यसाविति प्रसिद्धिः ॥ २ ॥ ९६ ॥ अथ मेरुः कर्णिकाचलः ॥ ९७ ॥ रत्नसानुः सुमेरुः स्वः-स्वर्गि-काञ्चनतो गिरिः । ,, मिनोति क्षिपत्युच्चत्वाद् ज्योतींषि इति मेरुः, “चिनीपी - " ।। ( उणा - ८०६ ॥ इति रुः ।। १ ।। जम्बूद्वीपपद्मस्य कर्णिकाभूतोऽचलः कर्णिकाचलः ॥ २ ॥ ९७ ॥ रत्नानि सानुष्वस्य रत्नसानुः || ३ || सुमेरुमैरोरभिन्नाऽर्थः इन्द्र महेन्द्रवत् ॥ ४ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy