SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४११ मि-" ॥ ( उणा- २०० ) ॥ इति तः ॥ २ ॥ उदगद्रिस्त्वद्रिराड् मेनका प्राणेशो हिमवान् हिमालयहिमप्रस्थौ भवानीगुरुः ॥९३ ॥ उदङ् उत्तरोऽदिरुदगद्रिः ॥ १ ॥ अद्रीणां सजा अद्रिराट् ॥ २॥ मेनकायाः प्राणेशो वल्लभो मेनकाप्राणेशः ॥३॥ हिममस्त्यस्मिन् हिमवान् ॥ ४ ॥ हिमस्याऽsलयो हिमालयः ॥ ५ ॥ हिमं प्रतिष्ठतेऽस्मात् , हिमं प्रस्थे अस्य वा हिमप्रस्थः॥६॥ भवान्या गौर्या गुरुः पिता भवानीगुरुः ॥ ७ ॥ ॥९३॥ हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजः । हिरण्यं नाभावस्य हिरण्यनाभः, "नाभेर्नानि" ॥ ७॥३।१३४ ॥ इत्य समासान्तः ॥१॥ मेनकाया अपत्यं मैनाकः, पृषोदरादित्वात् ॥ २॥ शोभना नाभिरस्य सुनाभः, तस्य हिमालयस्यात्मजः तदात्मजः ॥ ३ ॥ रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः ॥ ९४ ॥ रजतमयोऽद्रिः रजताद्रिः ॥ १॥ कं जलं इला भूमिस्तयोरास्ते, के लसनमस्य वा केलासः स्फटिकस्तस्यायं कैलासः, ॥ २ ॥ अष्टौ पदानि सन्त्यस्मिन् अष्टापदः, "नाम्नि" ॥३।२।७५॥ इति दीर्घः ॥ ३ ॥ स्फटिकमयोऽचलः स्फटिकाचलः ॥ ४ ॥ ॥ ९४ ॥ शेषश्वात्र-कैलासे धनदावासो हराद्रिर्हिमवद्धसः । क्रौञ्चः क्रुञ्चः क्रुञ्चति कुञ्चः प्रज्ञा द्यणि क्रौञ्चः, कौञोऽपि ॥ १ ॥२॥ अथ मलय आषाढो दक्षिणाचलः । मलते चन्दनान् मलयः पुंक्लीबलिङ्गः, "कुगुवलि." ॥ (उणा-३६५) ॥ इत्ययः ॥१॥ आषाढासु जातः आषाढः, "श्रविष्ठाषाढा-" ॥ ६।३।१०५ ॥ इत्यत्र मतान्तराश्रितोऽण् ॥ २ ॥ दक्षिणश्वासावचलश्च दक्षिणाचलः ॥ ३ ॥ शेषश्चात्र-मलयश्चन्दनगिरिः स्याद् माल्यवान् प्रस्रवणः माल्याऽऽकारताऽस्ति अस्य माल्यवान् ॥१॥ प्रस्रवति निर्झरैः प्रस्रवणः ॥२॥ विन्ध्यस्तु जलवालकः, ॥ ९५ ॥ विध्यति विन्ध्यः, “शिक्याऽऽस्याऽऽद्य” ॥ (उणा-३६४) ॥ इति ये
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy