SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४०९ अस्य मन्थस्य विष्कम्नाति बध्नातीति विष्कम्भो दण्डकटकः, यस्मिन् बद्ध्वा मन्थ आकृष्यते, दण्डकरोटकमित्यन्ये ॥ १॥ 'मञ्जिः सौत्रः' मञ्जति मीरः, “ कृशप-" ॥ ( उणा-४१८) ।। इतीरः ।। २ ॥ कुटति कुटरः, "ऋच्छिचटि." ॥ ( उणा- ३९७) ॥ इत्यरः कुटादित्वाद गुणाऽभावः कुटकोऽपि, मंदीरम्' देश्याम् ॥३॥॥ ८९ ॥ शालाजीरो वर्धमानः शरावः __ शालायां जीर्यति शालाजीरः, पृषोदरादित्वात् ॥ १ ॥ वर्धते मृपिण्डाद् वर्धमानः, वय॑ते छेद्यते चक्रादिति वा ॥ २ ॥ शीर्यते मनागपि आघातेन शरावः, “शृणातरावः" ।। ( उणा- ५२० ) ॥ पुंक्लाबलिङ्गावेतौ ॥ ३ ॥ कोशिका पुनः । मल्लिका चषकः कंसः पारी स्यात् पानभाजनम् ॥ ९० ॥ कुश्यति कोशिका ॥ १ ॥ मल्लते मल्लिका ॥ २ ॥ चषन्ति अनेन चषकः ॥ ३ ॥ काम्यते कंसः, “ मावावद्य." ॥ (उणा-५६४) ॥ इति सः पुंक्लीबलिङ्गावेतौ ॥ ४ ॥ पारयति पारी ॥ ५ ॥ पानस्य भाजनं पानभाजनम् ॥६॥९०॥ कुतूश्चर्मस्नेहपात्रम् . चर्मणः स्नेहपात्रं कुत्सितं तन्यते कुतू : स्त्रीलिङ्गः, " भ्रभिगमि-" ॥ (उणा-८४३) ॥ इति डिदूः ॥ १ ॥ कुतुपस्तु तदल्पकम् । तत् चर्मस्नेहपात्रं ह्रखा कुतूः कुतुपः, पुंक्लीबलिङ्गः,"कुत्वा डुपः ॥७॥३॥४९॥१॥ दृतिः खल्लः द्रियते इतिः पुंलिङ्गः, "हमुषि-" ॥(उणा-६५१)॥ इति कित् तिः ॥ १॥ खलति खल्लः, “भिल्लाच्छभल्ल.” ॥ (उणा-४६४) ॥ इति ले निपात्यते पुंलिङ्गोऽयम् , . वैजयन्ती तु. "खल्लं क्लीबम्" इत्याह ॥ २ ॥ चर्ममयी त्वालः करकपात्रिका ॥ ९१ ॥ करकवत् पिबन्त्यनया करकपात्री, के करकपात्रिका ॥ १ ॥ ९१ ॥ सर्वमावपनं भाण्ड आ उप्यते आधेयमस्मिन्नावपनम् ॥१॥ भामतेऽस्माद् भाण्डम् , “पञ्चमाद्." ॥ (उणा-१६८) ॥ इति डः ॥ २ ॥ पात्राऽमत्रे तु भाजनम्
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy