SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४०५ पेटा स्याद् मञ्जूषा पेटति पेटा, पेटकोऽपि 'पीडण् गहने' इत्यस्य पेडेत्यमरः ॥ १॥ 'मजिः सौत्रः ' मजति मञ्जूषा, “खलिफलि." ॥ (उणा-५६० ) ॥ इत्यूषः, मञ्जु मनोज्ञं कृत्वा वस्त्राद्यैरुष्यतेऽत्रेति वा ॥ २ ॥ अथ शोधनी ॥ ८१ ॥ संमार्जनी बहुकरी वर्धनी च समूहनी । शोध्यते निर्मलीक्रियते गृहमनया शोधनी, पवनी अपि ॥१॥८१॥ संमृ. ज्यतेऽनया संमार्जनी ॥ २ ॥ बहु करोति बहुकरी पुंस्त्रीलिङ्गः ॥ ३ ॥ वर्धते श्रीरनया वर्धनी ॥ ४ ॥ समुह्यते रजोऽनया समूहनी ॥ ५ ॥ सङ्कराऽवकरौ तुल्यौ समुह्य कीर्यतेऽसौ सङ्करः ॥ १ ॥ अवकीर्यते बहिः क्षिप्यतेऽवकरः ॥ २ ॥ उदूखलमुलूखलम् ॥ ८२ ॥ ऊर्ध्वं खं बिलं वाऽस्य उदूखलम्, उलूखलम् , कण्डनभाण्डं पृषोदरादित्वात साधू ॥१॥ २ ॥ ८२॥ प्रस्फोटनं तु प्रवनम् प्रस्फोठ्यते असारं बहिष्क्रियते प्रस्फोटनं निर्बुसीकरणम् ॥ १॥ पूयते पवनं तुषादिशोधनम् ॥ १॥ अवघातस्तु कण्डनम् । मुसलेन अवहननमवघातः ॥ १ ॥ कण्ड्यते कण्डनम् ॥ २॥ - कटः किलिञ्जः कटति आवृणोति कटो वीरणादिनिर्मितः त्रिलिङ्गः ॥१॥ किल्यते क्षिप्यतेऽस्मिन् किलिजः, उटजादौ निपात्यते ॥ २ ॥ मुसलोऽयोऽयं - मुस्यते खण्ज्यतेऽनेन मुसलः, "तृपिवपि-" ॥ (उणा-४६८)॥ इति किदलः, मुहुः खनं लाति, मुहुर्मुहुर्लसतीति वापृषोदरादित्वात् ॥१॥ अयः अग्रे मुखे अस्य अयोऽप्रम् , पुक्लीबलिङ्गी, अयोनिरित्येके, यद्वैजयन्ती- “अयोनिर्मुसलोऽस्त्री स्यात्" इति ॥ २॥ १ श्रीवर्णनिर्देशनाकारस्तु मूर्धन्यमध्योऽप्ययम्, इति श्रीवल्लभगणिपादाः ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy