SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ४०४. भभिधानचिन्तामणौ-... अश्नुतेऽधिः स्त्रीलिङ्गः, " तङ्किवकि." ॥ (उणा-६९२)॥ इति रिः ॥१॥ कुणति कोणो गृहादेविदिक् ॥ २ ।। अणत्यणिः पुंस्त्रीलिङ्गः ॥ ३ ॥ कुटति कोटिः स्त्रीलिङ्गः ॥ ४ ॥ पलति पालिः, “कृशकुटि-" ॥ (उणा- ६१९)॥ इति णिदिः, यां पाली ॥ ५ ॥ अस्यतेऽस्मिन् अस्रः, “भीवृधि." ॥ ( उणा-३८७)॥ इति आरोहणं तु सोपानं आरुह्यतेऽवरुह्यते चाऽनेन आरोहणम् ॥१॥ सह उपानमन्त्यस्मिन् सोपानम् , पृषोदरादित्वात् ॥ २॥ निःश्रेणिस्त्वधिरोहणी ॥ ७९ ॥ - निःश्रयति भित्तिं निःश्रेणिः स्त्रीलिङ्गः, "कावावी" ॥ ( उणा-६३४)॥ इत्याणिः, नियोजिता श्रेणिः सोपानपतिरत्रेति वा ॥ १ ॥ अधिरोहन्त्यवरोहन्ति चाऽनया दारुमय्या अधिरोहणी ॥ २ ॥ ७९ ॥ स्थूणा स्तम्भः तिष्ठति अस्यामाधेयं स्थूणा, “स्थाक्षुतोरूच्च" ॥ ( उणा- १८५ ) ॥ इति णः ॥ १॥ स्तम्भ्यते स्तम्भः ॥२॥ सालभञ्जी पाञ्चालिका च पुत्रिका । काष्ठादिघटिता सालं वृक्षं भनक्ति तनिर्मितत्वात् सालभजी ॥ १ ॥ पञ्च्यते "ऋकृमृ." ॥ ( उणा- ४७५ ) ॥ इत्याले पञ्चाली ततः स्वार्थे आणि के च पाञ्चालिका ॥२॥ कृत्रिमा पुत्री पुत्रिका काष्ठदन्तादिमयी ॥ ३ ॥ लेप्यमयी त्वञ्जलिकारिका ॥ ८ ॥ ... लेप्यनिर्मिता पुत्रिका ॥१॥ अञ्जलिं करोति अञ्जलिकारिका ॥२॥४०॥ नन्द्यावर्त्तप्रभृतयो विच्छन्दा आब्यवेश्मनाम् । नन्दी आवतॊऽत्र नन्द्यावर्त्तः प्रभृतिग्रहणात् स्वस्तिक-सर्वतोभद्राद्याः ॥१॥ विशेषेण छन्दयन्त्याच्छादयन्ति विच्छन्दा रचनाविशेषाः ॥ १॥ समुद्गः सम्पुटः समुज्यते समुद्गः, घजिन्यक्वादित्वात् निपात्यते, समुद्गच्छनीति वा "क्वचित्" ॥५।१ । १७१ ॥ इति डः ॥ १॥ सम्पुट्यते श्लेष्यते सम्पुटो भूषणाद्यावपनम् , पुटोऽपि ॥२॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy