________________
४ भूमिकाण्डः ।।
४०३
पटलच्छदिषी समे ॥ ७६ ॥ पटति स्थगयति पटलं त्रिलिङ्गः, "मृदिकन्दि." ॥ (उणा-४६५) ॥ इत्यलः, पटं लातीति वा ॥ १ ॥ छाद्यतेऽनेन च्छदिः क्लीबलिङ्गः, “ रुच्यचि." ॥ (उणा-९८९) ॥ इति इस्, “छदेरिस्मन्-" ॥४।२।३३॥ इति ह्रस्वः ॥२॥६॥
नीव्र वलीकं तत्प्रान्तः नीयते जलमनेन नीव्रम् , “खुरक्षुर." ॥ (उणा-३९६) ॥ इति रे निपात्यते ॥१॥ वलते संवृणोति वलीकं पुंक्तीबलिङ्गः, “स्यमिकषि-" ॥ (उणा -४६) ॥ इतीकः, तस्य पटलस्य प्रान्तस्तत्प्रान्तः ॥ २ ॥
इन्द्रकाशस्तमङ्गकः। इन्द्रेण कुश्यतीव इन्द्रकोशः ॥ १ ॥ ताम्यन्ति काङ्क्षन्त्येनं तमङ्गो हर्म्यनियूहः, “पतितमि." ॥ (उणा- ९८ ) ॥ इत्यङ्गः ॥२॥
वलभी छदिराधारः 'वडः सौत्रः' वडति वडभी, “कृशग-" ॥ ( उणा-३२९ ) ॥ इत्यभः लत्वे, वलभी अयमिकारान्तोऽपि, छदिषः आधारो वंशपञ्जरादिश्छदिराधारः
नागदन्तास्तु दन्तकाः ॥ ७७ ॥ नागस्येव दन्ता नागदन्ताः ॥ १ ॥ दन्तप्रतिकृतयो दन्तकाः ॥२॥७॥ ___ मत्तालम्बोऽपाश्रयः स्यात् प्रग्रीवो मत्तवारणे ।
मत्तैः प्रमादिभिरालम्ब्यते मनालम्बः ॥ १॥ अपाश्रीयतेऽपाश्रयः ॥२॥ प्रसृता प्रीवाऽत्र प्रीवः पुंक्लीवलिङ्गः ॥ ३ ॥ मत्तान् वारयति मत्तवारणस्तत्र ॥४॥
वातायनो गवाक्षश्च जालके वातस्य अयनं मार्गोऽस्मिन् वातायनः पुंक्लीबलिङ्गः ॥१॥ गोरक्षीव गवाक्षः, " अक्ष्णोऽप्राण्यङ्गे" ॥ ७ । ३ । ८५ ॥ इत्यः समासान्तः, “गोर्नाम्न्यवोऽक्षे" ॥ १।२।२८ ॥ इत्यवादेशः ॥२॥ जलति जालं ज्वलादित्वात् णः, के जालकं तत्र ॥ ३ ॥
___ अथान्नकोष्टकः कुसूलः ॥ ७८ ॥
कुष्णाति कोष्टः, “कुषेर्वा ॥ ( उणा-१६४ ) ॥ इति टः, अन्नस्य कोष्टोऽन्नकोष्टकः ॥ १॥ 'कुसच संश्लेषे दन्त्यान्तः' कुस्यति धान्येन कुसूलः, "कुलपुलकुसिभ्यः कित्" ॥ (उणा- ४९०) ॥ इत्यूलः, तालव्यमध्योऽप्ययम् ॥२॥७८॥
अश्रिस्तु कोणोऽणिः कोटिः पाल्यस्र इत्यपि ।