SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ४०१ ४ भूमिकाण्डः । साऽल्पा वर्गलिका सूचिः सा अर्गला अल्पा अर्गलिका ॥ १ ॥ सूचयति सूचिः स्त्रीलिङ्गः ॥ २ ॥ कुञ्चिकायां तु कूचिका । साधारण्यङ्कुटश्चासौ कुम्च्यतेऽनया कुञ्चिका, “नाम्नि पुंसि च” ॥ ५।३।१२१॥ इति णकः तत्र ॥१॥ कूचति कूचिका ॥२॥ साधारयन्ति अनया साधारणी ॥३॥ अङ्कयतेऽङ्कुटः, “नर्कुटकुक्कुट-" ॥ ( उणा-१५५) ॥ इत्युटे निपात्यते ॥ ४ ॥ द्वारयन्त्रं तु तालकम् ॥ ७१ ॥ द्वारपिधानाय लोहमयं यन्त्र द्वारयन्त्रम् ॥ १॥ ताज्यतेऽनेनेति ताडकम् , लत्वे तालकम् ॥ २ ॥ ७१ ॥ ___ अस्योद्घाटनयन्त्रं तु ताल्यपि प्रतिताल्यपि । अस्य तालकस्य उद्घाटनाय यन्त्रमुद्घाटनयन्त्रं ताज्यतेऽनया ताली ॥ १ ॥ प्रतिताज्यतेऽनया प्रतिताली ॥ २ ॥ तिर्यगद्वारोदारूत्तरङ्गं स्याद् द्वारस्य ऊर्ध्व उपरि तिर्यग् निहितं दारु उत्तरमूर्च गच्छत्युत्तरङ्गम् , "नानो गमः ॥ ५।१।१३१ ॥ इति खड् ॥१॥ अररं पुनः ॥ ७२ ॥ कपाटोऽररिः कुवाटः इयर्ति अररम् , "ऋच्छिचटि." ॥ ( उणा-३९७ ) ॥ इत्यरः ॥१॥७२॥ कम्पते कपाटः त्रिलिङ्गः, “कपाटविराट-" ॥ (उणा-१४८) ॥ इत्याटे निपात्यते, कं शिरः पाटयति प्रविशतामिति वा जपादित्वाद् वत्वे कवाटोऽपि ॥२॥ इयर्ति अररिः पुंक्लीबलिङ्गः, “नदिवल्लि." ॥ (उणा-६९८) ॥ इत्यरिः ॥३॥ कुत्सितं वट्यतेऽनेन कुवाटः ॥ ४ ॥ पक्षद्वारं तु पक्षकः । पक्षद्वारं पार्श्वद्वारम् ॥ १॥ पक्षस्य तुल्यः पक्षकः, खटक्किकाऽपि ॥ २ ॥ प्रच्छन्नमन्तारं स्याद् प्रकर्षण छाद्यते स्म प्रच्छन्नम् , गृहस्य मध्यद्वारं एकमेतदिति । कात्यो यदाह- "प्रच्छन्नमन्तरं यत् पक्षद्वारं तदुच्यते ॥ १॥ बहिद्वार तु तोरणम् ॥ ७३ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy