SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ३९९ नापितस्य शाला नापितशाला ॥१॥ वपन्त्यस्यां वपनी ॥२॥ शिल्पं विज्ञानमस्त्यस्यां शिल्पा ॥ ३ ॥ खरस्य कुटीव खरकुटी ॥ ४ ॥ आवेशनं शिल्पिशाला आविशन्यस्मिन् आवेशनं गृहादन्यत् कारूणां कर्मस्थानम् ॥१॥ शिल्पिना शाला शिल्पिशाला ॥ २ ॥ सत्रशाला प्रतिश्रयः ॥ ६६ ॥ सत्रं सदाद न तस्य शाला सत्रशाला ॥१॥ प्रतिश्रीयते प्रतिश्रयः ॥२॥६६॥ आश्रमस्तु मुनिस्थानम् . आश्राम्यन्ति तपस्यन्त्यस्मिन् आश्रमः पुंक्लीबलिङ्गः ॥ १ ॥ उपघ्नस्त्वन्तिकाश्रयः । उपहन्यते समीप इति ज्ञायते उपघ्नः, “निघोद्ध." ॥ ५।३।३६ ॥ इत्यलि निपात्यते ॥ १॥ अन्तिक आसन्न आश्रयोऽन्तिकाश्रयः ॥ २॥ प्रपा पानीयशाला स्यात् प्रपिबन्त्यस्यां प्रपा स्थादित्वात् कः ॥ १ ॥२॥ गञ्जा तु मदिरागृहम् ॥ ६७ ॥ गञ्जन्ति नदन्त्यस्यां क्षीवा ग़जा ॥ १ ॥ २ ॥ ६ ॥ पक्वणः शबरावासः पच्यतेऽस्मिन् पक्वणः पुंक्लीबलिङ्गः, “चिक्कण-" ॥ ( उणा-१९० ) ॥ इत्यणे निपात्यते ॥ १ ॥ २ ॥ घोषस्त्वाभीरपल्लिका। घोषन्ति गावोऽत्रेति घोषः ॥ १॥ आभीराणां गोपाना पल्लिहाली आभीरपल्लिका “वुटीग्रामकयोः पल्लिः” इति तु शाश्वतः ॥ २ ॥ पण्यशाला निषद्याऽट्टो हट्टो विपणिरापणः ॥ ६८ ॥ पण्यस्य शाला पण्यशाला ॥ १ ॥ निषीदन्त्यस्यां निषद्या, “समज-" ॥ ५।३।९९ ॥ इति क्यप् ॥ २ ॥ अन्तेऽस्मिन् अट्टः पुंक्तीबलिङ्गः ॥ ३ ॥ हटति दीप्यतेऽत्र हट्टः, “घटाघाटा-" ॥ ( उणा- १४१ ) ॥ इति टे निपात्यते ॥ ४ ॥ विविधं पणायन्त्यस्यां विपणिः स्त्रीलिङ्गः ॥५॥ एत्य पणायन्त्यस्मिन् आपणः, “गोचरसंचर-" ॥ ५।३।१३१ ॥ इति घः ॥ ६ ॥ ६८ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy