________________
३९८
अभिधानचिन्तामणी- ..
.
आस्थानं गृहमिन्द्रकम् । आस्थानाय गृहमास्थानगृहम् ॥१॥ इन्द्रं कायतीव सश्रीकत्वाद् इन्द्रकम् ॥२॥
तैलिशाला यन्त्रगृहं तैलिनः शाला तैलिशाला ॥१॥ तिलनिष्पीडनयन्त्रस्य गृहम् ॥ २ ॥ ___ अरिष्टं सूतिकागृहम् ॥ ६३ ॥
न रिष्यते हिंः कृतरक्षत्वाद् अरिष्टम् ॥ १ ॥ सूतिकाय गृहं सूतिकागृहम् ॥ २॥ ६३ ॥
सूदशाला रसवती पाकस्थानं महानसम् ।' सूदानां शाला सूदशाला ॥ १ ॥ रसाः सन्त्यस्यां रसवती, रस आस्वादो. ऽस्त्यस्यामिति वा ॥२॥ पाकाय स्थान पाकस्थानम् ॥३॥ अनसा उपकरणसम्भारबत्त्वं लक्ष्यते ततो महच्च तदनश्चेति महानसम् , “सरोऽनोऽइमाऽयसो जातिनाम्नोः" ॥७।३।११५॥ इत्यट् समासान्तः ॥ ४ ॥
हस्तिशाला तु चतुरं हस्तिनां शाला हस्तिशाला ॥ १ ॥ चलते चतुरम् ॥ २॥
वाजिशाला तु मन्दुरा ॥ ६४ ॥ वाजिनां शाला वाजिशाला ॥१॥ मन्द्यते स्तूयते मन्दुरा स्रीक्लीबलिङ्गः, "वाश्यसि." ॥ (उणा-४२३) ॥ इत्युरः ॥ २ ॥. ६४ ॥
सन्दानिनी तु गोशाला सन्दाननं गोबन्धनरज्जुरस्त्यस्यां सन्दानिनी ॥१॥ गवां शाला गोशाला ॥२॥
चित्रशाला तु जालिनी। चित्राऽलङ्कृता शाला चित्रशाला ॥१॥ जालानि सन्त्यस्यां जालिनी ॥२॥
कुम्भशाला पाकपुटी कुम्भानां घटनाय शाला कुम्भशाला ॥१॥ पाकेन पुटति संश्लिष्यति पाकपुटी
तन्तुशाला तु गतिका ॥ ६५ ।। तन्तुवानाय शाला तन्तुशाला ।। १॥ कुविन्दस्थितये गर्तोऽस्त्यस्यां गर्तिका, "अतोऽनेकखरात्" ॥ ७।२।६ ॥ इतीकः ॥ २ ॥ ६५ ॥
नापितशाला वपनी शिल्पा खरकुटी च सा।