SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्ड: । ३९७ विहरन्त्यस्मिन् विहारः पुंक्लीबलिङ्गः, अमरस्तु- "चैत्यमायतनं तुल्ये "इति, "बौद्धानां विहारोऽस्त्री " इति च चैत्यविहारौ भिन्नार्थावाह ।। २ ।। ६० ।। गर्भागारेऽपवरको वासौकः शयनास्पदम् । (6 " अगारस्य गर्भे गर्भागारम्, राजदन्तादित्वात् पूर्वनिपातः ॥ १॥ तत्र अपवृणोति आच्छादयति अपवरकः, ॥ ( उणा - २७ ) ॥ इत्यकः ॥ २ ॥ वासाय वासमध्ये वा ओको गृहं वासौकः ॥ ३ ॥ शयनस्य शय्याया आसदं शयनास्पदम् ॥ ४ ॥ દદદ भाण्डागारं तु कोशः स्यात् भाण्डागारं भाण्डागारम् ॥ १ ॥ कुश्यति भाण्डमत्र कोशः, पुक्लीबलिङ्गः ॥ २ ॥ चन्द्रशाला शिरोगृहम् ॥ ६१ ॥ चन्द्रेणाऽदूरवर्तिना शालते चन्द्रशाला ॥ १ ॥ शिरसि सौधस्य गृहं शिरोगृहम् ॥ २ ॥ ६१ ॥ कुप्यशाला तु सन्धानी कुप्यं ताम्रादि तस्य शाला कुप्यशाला ॥ १ ॥ सन्धीयतेऽस्यां सन्धानी ॥ २ ॥ कायमानं तृणौकसि । कायो मानमस्य कायमानम् ॥ १ ॥ तृणं काष्ठादेरुपलक्षणम्, तेन तृणकाष्ठादिभिः गृहस्योपरि रचितमोको लभ्यते ॥ २ ॥ होत्रीयं तु हविर्गेह जुह्वति अस्यां होत्रा, “हुयामा - " ॥ ( उणा - ४५१ ) ॥ इति त्रः, होत्रैव होत्रीयम्, " होत्राया ईयः " ।। ७।२।१६३ ।। इति स्वार्थे इयः ॥ १ ॥ हविषो होतव्यस्य गेहं हविर्गेहम् ॥ २ ॥ प्राग्वंशः प्रागृहविर्गृहात् ॥ ६२ ॥ . 'वंशः कुलं स्थूणा वा प्राग् वंशोऽत्र प्राग्वंशः, पत्नीशालाख्योऽग्निशालाया आद्यो भाग: ।। १ ।। ६२ ।। आथर्वणं शान्तिगृहम् 22 आथर्वणिकानां धर्म आम्नायः सङ्घो वा आथर्वणः, “ आथवैणिकादण् इक ।। ६।३।१६७ ।। इत्यणि साधुः सोऽत्राऽस्ति आथर्वणम् अदिव... अः ।। १ ।। शान्त्यै गृहं शान्तिगृहं शान्तीगृहकमपि । यद् वाचस्पति:"आथर्वणं शान्तिगृहं शान्तीगृहकमप्यदः " इति ॥ २ ॥ लुक् च ८०
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy