SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३९६ अभिधानचिन्तामणी कुट्टिमं त्वस्य बद्धभूः । अस्य गृहस्य पाषाणादिर्भिबद्धा भूमिः, कुट्ट्यते कुट्टिमं पुंक्तीबलिङ्गः, “कुट्टिवेष्टि." ॥ (उगा-३४९) ॥ इतीमः ॥ १॥ चतुःशालं संजवनं चतस्रः शालाः समाहृताश्चतुःशालम् ॥ १ ॥ संजवन्तेऽत्र संजवनम् ॥ २ ॥ सौधं तु नृपमन्दिरम् ॥ ५८ ॥ ___सुधया धवलीकृतं सौधं पुंक्लीबलिङ्गः ॥ १ ॥ ५८ ॥ व उपकारिकोपकार्या उपकरोत्युपकारिका ॥ १ ॥ उपक्रियते उपकार्या, उपकर्याऽपि, पटमण्डपादि राजसदनम् ॥ २॥ सिंहद्वारं प्रवेशनम् । सिंहस्येव द्वारं सिंहद्वारम् ॥ १ ॥ प्रविश्यतेऽनेन प्रवेशनम् ॥ २ ॥ : प्रासादो देवभूपानां गृहमित्युत्तरतः संबध्यते, प्रसीदन्ति नयन-मनांस्यस्मिन्निति प्रासादः, "घञ्यु. पसर्गस्य." ॥ ३।२।८६ ॥ इति दीर्घः, प्रसादनोऽपि ॥१॥ हर्म्य तु धनिनां गृहम् ।। ५९ ॥ .. हरति मनो हर्म्यम् , “शिक्यास्याढ्यः" ।(उगा-३६४)॥ इति ये निपात्यते ॥१॥ ५९ ।। मठाऽऽवसथ्याऽऽवसथाः स्युश्छात्र-व्रतिवेश्मनि । मठन्ति निवसन्यत्र मठः त्रिलिङ्गः, बाहुलकात् "पुंनाम्नि"- ॥५।३।१३०॥ इति घः ॥ १॥ आवसथ एव आवसथ्यम् , भेषजादित्वाद् ट्यण ॥२॥ आवसन्त्यस्मिन्नावसथः, छात्राणां व्रतिनां च वेश्मनि ।। ३ ॥ पर्णशालोटजः पर्णमुपलक्षणं तेन पर्णतृणादेः शाला पर्णशाला ॥१॥ वट्यते वेष्ट्यते सृणपर्णादिभिरित्युटजः मुनिकुटीरः पुंक्लीबलिङ्गः, “उटजादयः" ।। (उणा-१३४) ।। इत्यजे निपात्यते ॥ २ ॥ चैत्यविहारौ जिनसद्मनि ॥ ६० ॥ चीयते चैत्यम् , “शिक्यास्या-" । (उणा-३६४) ॥ इति ये साधुः ॥ १ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy