________________
३९५
४ भूमिकाण्डः । गेहं तु गृहं वेश्म निकेतनम् ॥ ५५ ।। मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः । आलयो निलयः शाला सभोदवसितं कुलम् ॥ ५६ ॥ धिष्ण्यमावसथः स्थानं पस्त्यं संस्त्याय आश्रयः ।
ओको निवास आवासो वसतिः शरणं क्षयः ।। ५७ ॥ धामाऽगारं निशान्तं च केतन्ति निवसन्ति अत्र गेहम् , "कितो गे च" ॥ ( उणा-५८७) ॥ इति हः ॥ १ ॥ गृह्णाति पुरुषोपार्जितं द्रव्यमिति गृहम् , " गेहे ग्रहः ” ॥ ५।१।५५ ॥ इति कः, पुंक्लीबलिङ्गावेतौ ॥२॥ विशन्ति अस्मिन्निति वेश्म क्लीबलिङ्गः, “मन्"। ( उणा-९११ ) ॥ इति मन् ॥ ३ ॥ निकेतन्त्यत्र निकेतनम् ॥ ४ ॥५५ ॥ मन्द्यते स्तूयतेऽत्र मन्दिरं स्त्रीक्लीबलिङ्गः, “ मदिमन्दि-" ॥ (उणा-४१२) ॥ इतीरः ॥५॥ सीदन्त्यस्मिन् सदनम् ॥ ६ ॥ " मन्" ॥ (उणा-९११) ॥ इति मनि सद्म क्लीबलिङ्गः ॥७॥ नितरां चीयते निकाय्यः, "धाय्यापाय्य-" ॥५।१।२४॥ इति ध्यणि निपात्यते ॥ ८ ॥ भवन्त्यस्मिन् भवनं पुंक्लीबलिङ्गः ॥ ९ ॥ कुट्यतेऽस्मिन् कुटः स्त्रीपुंसलिङ्गः ॥ १० ॥ आलीयन्तेऽस्मिन्नालयः ॥ ११॥ एवं निलयः ॥ १२ ॥ शायते शाला, " शामाश्या." ॥ ( उणा-४६२)॥ इति ल: शालते वा, शलन्त्यस्यां वा ॥ १३ ॥ सह भान्त्यस्यां सभा ॥ १४ ॥ उदवसिनोति स्मोदवसितम् ,ऊर्ध्वमवसीयते वा ॥१५॥ कोलन्ति अत्र कुलम्, स्थादित्वात् कः ॥१६॥ ॥ ५६ ॥ धृष्णुवन्त्यस्मिन् धिष्ण्यम् “ शिक्यास्यात्या-" ॥ ( उणा-३६४ )॥ इति ये निपात्यते॥१७॥आवसन्ति अस्मिन्नावसथः “उपसर्गाद् वसः ॥(उणा-२३३) ॥ इत्यथः ॥ १८ ॥ तिष्ठन्त्यत्र स्थानम् ॥ १९ ॥ 'पसि निवासे' सौत्रो दन्त्यान्तः, पसन्त्यस्मिन् पस्त्यम् , “ मृशीपसि-" ॥ (उणा-३६०) ॥ इति तकारादि. यः, अपस्त्यायति संघातीभवतीति वा पृषोदरादित्वात् ॥ २० ॥ संस्त्यायन्त्यत्र संस्त्यायः ॥ २१ ॥ आश्रयन्त्येनमाश्रयः ॥२२॥ उच्यन्त्यस्मिन् ओकः क्लीबलिङ्गः, " उच्यञ्चेः कश्च ” ॥ ( उणा-९६५)॥ इत्यस् ॥ २३ ॥ निवसन्त्यस्मिन्निवासः ॥२४॥ एवमावासः ॥२५॥ वसन्त्यस्यां वसतिः स्त्रीलिङ्गः, “खल्यमि." ॥ ( उणा-६५३ ) ॥ इत्यतिः ॥ २६ ॥ शीर्यते शीताद्यनेन शरणम् ॥ २७ ॥ क्षयन्त्यत्र क्षयः ॥ २८ ॥ ५५ ॥ दधत्यस्मिन्नाश्रयं धाम क्लीबलिङ्गः, “ मन् " ॥ ( उणा-९११ ) ॥ इति मन् , “ अर्तीरि." ॥ ( उणा-३३८ ) ॥ इति मे धाममपि ॥ २९ ॥ अग्यतेऽस्मिन्नगारम् "अग्यनि-" ॥ ( उणा-४०५)॥ इत्यारः, अगान् वृक्षानियर्ति वा ॥ ३० ॥ निशाम्यन्त्यस्मिन्निशान्तम्, “ अद्यर्थाचाधारे" ॥५।१।१२॥ इति क्तः, निशाया अन्तोऽत्रेति केचित् ॥३१॥