SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३९४ अभिधानचिन्तामणौ गजाद्यध्वा त्वसङ्कुलः ॥ ५२ ॥ घण्टापथः संसरणं श्रीपथो राजवर्त्म च । उपनिष्क्रमणं चोपनिष्करं च महापथः ॥ ५३ ॥ असङ्कुलो गजादीनां मार्गः ॥ १ ॥ ५२ ॥ घण्टोपलक्षितानां हस्तिनां पन्था घण्टापथः, चाणाक्योक्तोऽष्टदण्डपृथुः पन्थाः ॥ २ ॥ सम्यक् सरन्त्यत्र संसरणम् ॥ ३॥ श्रिया उपलक्षितः पन्थाः श्रीपथः ॥ ४ ॥ राजयोग्यं वर्त्म राजवर्त्म ॥ ५ ॥ उपनिष्क्रम्यतेऽस्मिन् उपनिष्क्रमणम् ॥ ६ ॥ उपनिष्कीर्यते सैन्यमस्मिन् उपनिष्करम् · ॥ ७ ॥ महांश्चासौ पन्थाश्च महापथः ॥ ८ ॥ ५३ ॥ विपणिस्तु वणिग्मार्गः C विपण्यन्तेऽस्यां विपणिः स्त्रीलिङ्गः, “पदिपठि " ॥ ( उणा - ६०७ ) ॥ इति इः ॥ १ ॥ वणिजां मार्गो वणिग्मार्गः पण्यवीथ्यपि ॥ २ ॥ स्थानं तु पदमास्पदं । तिष्ठन्त्यस्मिन् स्थानम् ॥१॥ पद्यतेऽस्मिन् पदम्, “वर्षादयः क्लीबे” || ५|३|२९|| इत्यल् ॥ २ ॥ आ समन्तात् पदमास्पदं वर्चस्कादित्वात् साधुः ॥ ३ ॥ श्लेषस्त्रिमार्ग्याः शृङ्गाटं त्रयाणां मार्गाणां श्लेषो मेलनं श्रीयते तदिति शृङ्गाटम्, “कपाटविराट " ॥ ( उणा - १४८ ) ॥ इत्याटे निपात्यते श्रङ्गैरटन्ति अस्मिन्निति वा, शृङ्गाटवद् मार्गेस्त्रिकोणत्वाद् वा ॥ १ ॥ बहुमार्गी तु चत्वरम् ॥ ५४ ॥ बहवो मार्गाः समाहृताः बहुमार्गी ॥ १ ॥ चत्यते चत्वरम्, ( उणा - ४४१ ) ॥ इति वरट् ॥ २ ॥ ५४ ॥ "कगश ἐξξ "" 11 श्मशानं करवीरं स्यात् पितृप्रेताद् वनं गृहम् । " शवानां शयनं श्मशानम्, पृषोदरादित्वात् ॥ १ ॥ करैर्वीरयन्तेऽत्र करवीरम् ॥ २ ॥ पितृप्रेतादिति समाहारद्वन्द्वो यथासंख्या निवृत्त्यर्थः तेन पितृप्रेतशब्दाभ्यां परं वनं गृहं च, पितॄणां वनं गृहं च पितृवनं पितृगृहम् ॥ ३ ॥ ४ ॥ एवं प्रेतवनम् ॥ ५ ॥ प्रेतगृहम् ॥ ६ ॥ गेहभूर्वास्तु गेहाय भूमिर्गेहभूः ॥ १ ॥ वसन्त्यत्र वास्तु पुंक्लीबलिङ्गः, “ वसेर्णिद् वा ( उणा - ७७४ ) ॥ इति तुन् ॥ २ ॥ ܕܕ "
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy