________________
- ४ भूमिकाण्डः ।
३९३
संश्वासौ पन्थाश्च सत्पथस्तत्र ॥ १ ॥ स्वतिशब्दाभ्यां परः पन्था, पूजितः पन्थाः सुपन्थाः, पूजितः पन्थाः अतिपन्थाः, “पूजाखतेः प्राक् टात्" ॥ ७३१७२ ॥ इति समासान्तनिषेधः ॥ २ ॥ ३ ॥
__ अपन्था अपथं समे । न पन्था अपन्थाः, "नञ्तत्पुरुषात्" ॥७३।७१॥ इति समासान्तनिषेधः॥१॥ नी निर्दिष्टस्य अनित्यत्वात् समासान्ते सति अपथम् , “पथः सङ्ख्याऽव्ययोत्तरः"। (हैमलिङ्गानु० नपुं० श्लो-८)॥इति क्लीबत्वम् , पथोऽभाव इति अव्ययीभावो वा।।२॥ _____ व्यध्वो दुरध्वः कदध्वा विपथं कापथं च सः ॥ ५० ॥
विरुद्धोऽध्वा व्यध्वः ॥१॥ दुष्टोऽध्वा दुरध्वः, "उपसर्गादध्वनः." ॥७॥३॥७९॥ इत्यत्समासान्तः ॥ २ ॥ कुत्सितोऽध्वा कदध्वा ॥३॥ विरुद्धः पन्था विपथम् ॥४॥ कुत्सितः पन्था कापथम् , “काक्षपथोः" ॥३।२।१३४॥ इति कादेशः, “पथः सङ्ख्या ऽव्ययोत्तरः" ( हैमलिङ्गानु० नपुं० श्लो-८)॥ इति क्लीबत्वम् । अमरस्तु- विपथकापथशब्दौ पुस्याह, गौडश्च यदाह- "व्यध्वो विपथकापथौ" इति ॥ ५ ॥ ५० ॥
प्रान्तरं दशून्योऽध्वा प्रगता अन्तरेऽस्मात् प्रान्तरं दूरशून्यो मार्गः ॥ १ ॥ __कान्तारो वर्त्म दुर्गमम् ।
कम्यते कान्तारः पुंक्लीबलिङ्गः, “द्वारशृङ्गार-" ॥ ( उणा-४११) ॥ इत्यारे निपात्यते, कस्य अम्भसोऽन्तमियर्तीति वा ॥ १ ॥
सुरुङ्गा तु सन्धिला स्याद् गूढमार्गो भुवोऽन्तरे ॥ ५१ ॥ सरत्यनया सुरुङ्गा, “सर्तेः सुर्च" ॥ ( उणा-१०८ ) ॥ इत्युङ्गः ॥ १॥ सन्धि लाति सन्धिला, सन्धिरपि, भूमिमध्ये गूढोमार्गः ॥ २ ॥ ५१ ॥
चतुप्पथे तु संस्थानं चतुष्कं चतुर्णा पथां समाहारश्चतुष्पथं तत्र ॥ १ ॥ संतिष्ठतेऽत्र संस्थानम् ॥ २ ॥ चत्वारोऽवयवा अस्य चतुष्कम् ॥ ३ ॥
त्रिपथे त्रिकम् । त्रयाणां पथां समाहारस्निपथं तत्र ॥१॥ त्रयोऽवयवा अस्य त्रिकम् ॥२॥
द्विपथं तु चारपथः द्वौ पन्थानौ समाहृतौ द्विपथम् ॥ १॥ चाराय पन्थाश्चारपथः ॥ २॥
१ "समासान्ता-ऽऽगम-संज्ञा-ज्ञापक-गण ननिर्दिष्टानि अनित्यानि ” ॥ (न्यायमञ्जूषा-न्या-३५) ॥ इति परिभाषया ।
२ सङ्ख्यावाचिनोऽव्ययाच परः पथशब्दः क्लीबलिङ्गः, इति भावः ।