________________
३९०
अभिधानचिन्तामणौ
उज्जयनी स्याद विशालाऽवन्ती पुष्पकरण्डिनी । उत्कर्षेण जयति उज्जयनी रम्यादित्वाद् अनट , अन्ये तु उज्जयनी नाम राक्षसी देवता वा तस्या निवास उज्जयनीति चातुरर्थिकमणमुत्पाद्य तस्य लोपमिच्छन्ति ॥१॥ विशेषेण शालते विशाला, विशिष्टाः शाला अत्रेति वा, विस्तीर्णत्वाद् वा॥२॥ अव्यतेऽवन्ती ॥३॥ पुष्पकरण्डं नामोद्यानम् , तदत्रास्ति पुष्पकरण्डिनी । यद्वयाडि:
" उज्जयन्यां यदुद्यानं तत् स्यात् पुष्पकरण्उकम्” इति ॥ ४ ॥
पाटलिपुत्रं कुसुमपुरं
पाटलिभिः पुनाति पाटलिपुत्रम् ," पुत्रादयः " ॥ ( उणा-४५५ ) ॥ इति निपात्यते ॥ १ ॥ कुसुमबहुलं पुरं कुसुमपुरम् ॥ २ ॥
चम्पा तु मालिनी ॥ ४२ ॥ - लोमपादकर्णयोः पू:
चणन्ति अस्यां चम्पा, “ भापाचणि." ॥ (उणा-२९६) ॥ इति पः ॥१॥ मालाः सन्त्यस्यां मालिनी ॥ २ ॥ ४२ ॥ लोमपादो राजर्षिः, कर्णः कौन्तेयः तयोः पूः लोमपादपूरी ॥ ३ ॥ कर्णपूरी ॥ ४ ॥
देवीकोट उमावनम् । कोटिवर्ष बाणपुरं स्यात् शोणितपुरं च तत् ॥ ४३ ॥
देव्याः कोटः कौटिल्यमत्र देवीकोटः ॥ १ ॥ उमाया वनमुमावनम् ॥ २॥ कोटिभिवर्षति कोटिवर्षम् ॥ ३ ॥ बाणाऽसुरस्य पुरं बाणपुरम् ॥ ४ ॥ शोणितलिप्तं पुरं शोणितपुरम् ॥ ५ ॥ ४३ ॥ .
मथुरा तु मधूपघ्नं मधुरा मथति चित्तं मथुरा, " वाश्यसि." ॥ ( उणा-४२३ ) ॥ इत्युरः, मथुरायाः पिशाच्या अदूरभवं नगरमित्यन्ये ॥ १ ॥ मधोर्दानवस्य उपघ्न आश्रयोऽत्र मधूपन्नम् ॥ २ ॥ मधुना राजते मधुरा, मधुरधिष्ठितोऽस्या अस्तीति वा मध्वादित्वाद् रः ॥ १ ॥
अथ गजाह्वयम् ।
स्याद् हास्तिनपुरं हस्तिनीपुरं हस्तिनापुरम् ॥ ४४ ॥ गजस्याह्वयोऽस्य गजाह्रयम् , यद्भारते-“नगरे नागसाह्वये" इति, “तेन गजपुरं नाम नगरम् , इत्यादि ॥१॥ हस्तिन्या इदं हास्तिनं तच तत्पुरं च हास्तिनपुरम् ॥२॥ हस्तिन्याः पुरं हस्तिनापुरम् ॥ ३ ॥ पृषोदरादित्वाद् आत्वे हस्तिनापुरम् ॥४॥४४॥