SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । . ३८९ गया पूर्गयराजर्षेः गच्छन्ति अस्यां गया, “गयहृदया-"॥ (उणा-३७०)॥ इत्यये निपात्यते॥१॥ कन्यकुब्जं महोदयम् ॥ ३९ ॥ कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत् । कन्याः कुब्जा अत्र कन्यकुब्जम् , तत्र हि जमदग्निना शापेन नरपतेः कन्याः कुब्जीकृता इति प्रसिद्धिः, "ड्यापो बहुलं." ॥ २।४।९९ ॥ इति एखः, इखत्वाऽभावे कन्याकुब्जम् ॥ १॥२॥ महान् उदयोऽस्य महोदयम् , एते त्रयः स्त्रीक्लीबलिङ्गाः ॥३॥३९॥ गाधेः राज्ञः पुरं गाधिपुरम्॥४॥कुशाः सन्ति अत्र कौशम् , चातुरर्थिकोऽण् ॥५॥ कुशानां स्थलं कुशस्थलम् ॥ ६ ॥ काशिर्वराणसी वाराणसी शिवपुरी च सा ॥ ४०॥ काशते काशिः स्त्रीलिङ्गः, “ पदिपठि-" ॥ ( उणा-६०७ ) ॥ इति इः ॥ १॥ वाराणसीशब्दस्य पृषोदरादित्वात् इस्खत्वे वराणसी ॥२।। वरणा च असिश्च वरणासी नद्यौ तयोरदूरभवा चातुरर्थिकोऽण् , "वृद्धिः स्वरेष्वादेः." ॥४१॥ इति वृद्धौ रेफाऽकारस्य पृषोदरादित्वाद् दीर्घत्वे णकाराऽऽकारस्य इखत्वे च ड्यां वाराणसी, यद्वा वृणातेः “मुमुचा-"॥ (उणा-२७८)।। इत्याने वराणो वीरणाभिधानम् , वराणाः सन्त्यत्र वराणसा नदी "तृणादेः सल्"।६।२।८१॥इति चातुरर्थिकः सल ,तस्या अदूरभवेति वा देशो वा वराणसंस्तत्र भवा वा, वारैरचितीति वा “ गोपादेरनेरसिः" । ( उणा-७०८ ) ॥ इत्यसिस्ततो डीः ॥३॥ शिवस्य पुरी शिवपुरी ॥४॥४०॥ साकेतं कोसलाऽयोध्या सा लक्ष्मीः कं सुखं ताभ्यामितं साकेतम् ॥ १ ॥ कोसलदेशयोगात् कोसला ॥२॥ न योध्यते परैरयोध्या ॥ ३ ॥ विदेहा मिथिला समे। विदिह्यते विदेहा ॥ १ ॥ मिथ्यते मिथिला, “ गुपिमिश्वि-" ॥ ( उणा४८३ ) ॥ इति किदिलः ॥ २ ॥ त्रिपुरी चेदिनगरी तृतीया पुरी त्रिपुरी मयूरव्यंसकादित्वात् , त्रयाणां पुराणां समाहारो वा भाप्यकारवचनात् स्त्रीत्वम् ॥ १ ॥ चेदीनां नगरी चेदिनगरी ॥ २ ॥ कौशाम्बी वत्सपत्तनम् ॥ ४१ ॥ .. कुशाम्बेन निर्वृत्ता कौशाम्बी चातुरर्थिकोऽण् ॥ १॥ वत्सराजस्य वत्सदेशे चा पत्तनं वत्सपत्तनम् ॥ २ ॥ ४१॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy