________________
३८८
अभिधानचिन्तामणी- ..
नगरी पू: पूरी द्रङ्गः पत्तनं पुटभेदनम् ॥ ३७॥
निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च । नश्यन्त्यस्यां नगरी स्त्रोक्लीबलिङ्गः, “जठर-"॥ (उणा-४०३) ॥ इत्यरे निपास्यते, नगाः सन्त्यस्यामिति वा मध्वादित्वाद् रः॥१॥ पूर्यते पू:, संपदादित्वात् विप् ॥ २॥ पुरति पूरी त्रिलिङ्गः ॥ ३ ॥ द्रमन्त्यत्रेति द्रङ्गः, "द्रमो णिद् वा'॥ (उणा९५) ॥ इति गः ॥ ४ ॥ पतन्त्यस्मिन् पत्तनम् , “वीपति-"॥ (उणा-२९२)। इति तनः, पट्टनमपि ॥५।। पुटा भाण्डवासनानि भिद्यन्तेऽत्र पुटंभेदनम्॥६॥३॥ निविशन्तेऽत्र निवेशनम् ।। ७ ।। अधितिष्ठन्त्यस्मिन्नधिष्ठानम् ॥ ८ ॥ तिष्ठन्त्यस्मिन् स्थानीयम् , “बहुलम्" ॥ ५। १।२ ॥ इत्यधिकरणेऽप्यनीयः ॥ ९ ॥ नियतं गच्छन्त्यत्र निगमः, "गोचरसंचर-" ॥ ५।३।१३१ ॥ इति घः, वाचस्पतिस्तु
"स्यात् स्थानीयं त्वतिलम्बो ग्रामो ग्रामशताष्टके । तदद्धं तु द्रोणमुखं तच्च कवटमस्त्रियाम्" ॥ १॥ कर्वटार्द्ध कवुटिकं स्यात्तद॰ तु कार्वटम् । तदर्दू पत्तनं तच्च पत्तनं पुटभेदनम् ॥ २ ॥ निगमस्तु पत्तना॰ तदर्दू तु निवेशनम् । कर्वटादधमो द्रङ्गः पत्तनादुत्तमश्च सः ॥ ३ ॥
उद्रङ्गश्च निवेशश्च स एव द्रङ्ग इत्यपि ।” इति विशेषमाह ॥ १० ॥ शाखापूर तूपपुरम् शाखा समीपवर्ति पुरं शाखापुरम् , यदाह
"शाखा वेदिविभागे स्यात् पादपाङ्गान्तिकेऽपि च" । उप समीपे पुरस्य मूलनगरस्य उपपुरम् ॥ १॥ . खेटः पुरार्द्धविस्तरः ॥ ३८ ॥ खिटयते खेटः, पुरस्याऽर्द्ध विस्तरोऽस्य पुरार्द्धविस्तरः ॥ १ ॥ ३८ ॥
स्कन्धावारो राजधानी षण्णाममात्यादीनां प्रधानभूतत्वाद् राजा स्कन्धस्तमावृणोति स्कन्धावारः ॥१॥ राजा नृपो धीयतेऽस्यां राजधानी स्त्रीक्लीबलिङ्गः ॥ २ ॥
कोट्टदुर्गे पुनः समे। कुट्यते कोटः पुंक्लीबलिङ्गः, पृषोदरादित्वाद् गुणः ॥ १ ॥ दुःखेन गम्यतेऽस्मिन् दुर्गम् , "सुगदुर्गमाधारे" ॥५।१।१३२॥ इति साधुः ॥ २ ॥
१ वृक्षा इत्यर्थः ।