SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । द्रोणस्य आढकस्य च वापो द्रौणिकः, आढकिकः, “तस्य वापे-”॥६।४।१५१॥ इतीकण, आदिशब्दात् खार्या वापः खारीक इत्यादयः, उप्यतेऽस्मिन् इति वापः क्षेत्रम्, द्रोणाढकयोर्वापो द्रोणाढकवापः, आदिशब्दाद् द्रोणं पचति संभवति अवहरति द्रौणिकः कटाह इत्याद्यर्थः ॥ १ ॥ १ ॥ ३८७ खलधानं पुनः खलम् ।। ३५ ।। खलन्ति सञ्चीयमानानि धान्यानि अत्र खलधानम्, पृषोदरादित्वात् ॥ १ ॥ खल्यन्ते सञ्चीयन्ते धान्यानि अत्र खलं त्रिलिङ्गः, “गोचरसंचर - " | ५|३|१३१ ॥ इति निपातनाद् घः ॥ २ ॥ ३५ ॥ चूर्णे क्षोदः चूर्यते स्म चूर्ण पुंक्लीबलिङ्गः, तत्र ॥ १ ॥ क्षुद्यते क्षोदः धूलिप्रायोऽयम्, यत् “चूर्णानि वासयोगाः स्युश्चूर्णो धूलिः सशर्करः" इति ॥ २ ॥ अथ रजसि स्युः धूलीपांशुरेणवः । शाश्वतः रज्यते वस्त्राद्यनेन रजः क्लीबलिङ्गः, “मिथिरञ्जि " ॥ ( उणा -९७१) ॥ इति किदस्, तत्र ॥१॥ धूयते धूलिः स्त्रीलिङ्गः, “धूमूभ्यां-” ॥ ( उणा - ७०१) ॥ इति लिक्, ङयां धूली ॥ २ ॥ ' पसुण् नाशने दन्त्यान्तः' पंसयति पांसुः पुंलिङ्गः, “पंसेर्दीर्घश्च” ॥ ( उणा-७१८ ) ॥ इत्युः ॥ ३ ॥ रीयते रेणुः स्त्रीलिङ्गः,“अजिस्था-" ॥ उणा - ७६८ ) ॥ इति णुः ॥ ४ ॥ लोष्टे लोप्टुर्दलिर्लेप्टुः " लुष्यते लोष्टः मृत्-शकलं पुंक्लीबलिङ्गः, “लुषेष्टः " ॥ ( उणा - १३८ ) ॥ तत्र ॥ १ ॥ ‘लोष्टि सङ्घाते' लोष्ट्यते लोष्टुः पुंलिङ्गः, “भृमृतृ-” ॥ ( उणा७१६ ) ।। इत्युः ।। २ ।। दलयति दलिः स्त्रीलिङ्गः, “स्वरेभ्य इः” ।। ( उणा६०६ ) ॥ ३ ॥ लिश्यते लेष्टुः पुंलिङ्गः, “कृसिकम्य-" ॥ ( उणा-७७३ ) ॥ इति बहुवचनात् तुन् ॥ ४ ॥ वल्मीकः कृमिपर्वतः ॥ ३६॥ वभ्रीकूटं वामलूरो नाकुः शक्रशिरश्च सः । वलन्ते प्राणिनोऽत्र वल्मीकः पुंक्लीबलिङ्गः, “सृणीकास्तीक - " । ( उणा - ५०) इतके निपात्यते ॥१॥ कृमीणां पर्वत इव कृमिपर्वतः ॥ २ ॥ ३६ ॥ वीणामुपदेहिकानां कूटं शिखरं वभ्रीकूटम् ॥ ३ ॥ वामं वामैर्वा लूयते वामलूरः, “सिन्दूर-” ॥ ( उणा - ४३० ) ॥ इत्यूरे निपात्यते ॥ ४ ॥ नमति नाकुः पुंलिङ्गः, "नमेर्ना - क् च” ॥ (उणा-७२०) ॥ इत्युः ॥ ५ ॥ शक्रस्य शिरो मूर्द्धा शक्रशिरः ॥ ६ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy