SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३८६ अभिधानचिन्तामणौ भनयं भाङ्गीनमौमीनमुम्यं यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं माष्यं भङ्गादिसम्भवम् ।। ३३ ।। भङ्गानां क्षेत्रं भङ्गयम् , "वोमाभङ्ग." ॥ १।८३ ॥ इति यः, पक्षे ईनजि भाङ्गीनम् ॥ १॥२॥ उमानामौमीनम् , उम्यम् ॥ १॥२॥ यवानां यव्यम् ॥१॥ यवकानां यवक्यम् , “यवयवक-" ॥ ७॥१८१ ॥ इति ये साधू ॥ २ ॥ तिलानां तिल्यम् , “वोमाभङ्ग-" ॥१८३॥ इति यः॥ १ ॥ पक्षे ईनजि तैलीनम् ॥ २ ॥ माषाणां माषीणम् , माष्यम् , भङ्गादिनां सम्भवोऽत्र भङ्गादिसम्भवं क्षेत्रम् ॥१॥२॥ ॥३३॥ सीत्यं हल्यम् सीतया सङ्गतं सीत्यम् , “सीतया सङ्गते" ॥ ७।१।२७ ॥ इति यः ॥१॥ हलस्य कर्षः क्षेत्रं कृष्यत इति कृत्वा हल्यम् , “हलस्य कर्षे” ॥ ७॥१।२६ ॥ इति यः॥२॥ त्रिहल्यं तु त्रिसीत्यं त्रिगुणाकृतम् । तृतीयाकृतं त्रयाणां हलानां कर्षस्त्रिहल्यम् , ॥१॥ तिसृभिः सीताभिः सङ्गतं त्रिसीत्यम् ॥ २ ॥ त्रिगुणाक्रियते स्म त्रिगुणाकृतम् , त्रिर्विलिखितम् , “सङ्खयादेर्गुणात्" ॥७।२।१३६॥ इति डाच् ॥ ३ ॥ तृतीयं वारं क्रियते स्म तृतीयाकृतम् , “तीयशम्बबीजाद." ॥७।२१।१३५॥ इति डाच् ॥ ४ ॥ द्विहल्याद्येवं शम्बाकृतं च तत् ॥ ३४ ॥ द्वयोर्हलयोः कर्षो द्विहल्यम्, आदिशब्दाद् द्वाभ्यां सीताभ्यां सङ्गतं द्विसीत्यम् , द्विगुणाकृतम् , द्वितीयाकृतमित्यादि ।।४॥ शम्बा क्रियते स्म शम्बाकृतं अनुलोमकृष्टम् , पुनस्तिर्यक् कृष्यते स्म, "तीयशम्बबीजाद." ॥२॥१३५॥ इति डाच् ॥५॥ ॥ ३४ ॥ बीजाकृतं तूप्तकृष्टं अजिं सबीजं बीजसंपन्नं बीजाकृतम् , “तीयशम्बबीजाद्-" ।।७।२।१३५॥ इति डाच् ॥ १॥ आदावुप्तं पश्चाद् बीजैः सह कृष्टं उप्तकृष्टम् , “पूर्वकालै." ॥३१॥ ९७॥ इति कर्मधारयः ॥ २ ॥ द्रौणिकाऽऽढकिकादयः। स्युर्दोणाढकवापादौ
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy