SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ३८५ गवां स्थानं गोस्थानम् ॥ १ ॥ गावस्तिष्ठन्त्यत्र गोष्ठं क्लीबलिङ्गः, शाब्दिकास्तु गोष्ठो भूतपूर्व इति पुंस्यपि प्रयुञ्जते, स्थादित्वात् कः,“गोऽम्बाऽऽम्ब-"॥२॥३॥३०॥ इति षत्वम् ॥ २॥ एतत्तु गौष्ठीनं भूतपूर्वकम् । एतत्तु गोष्ठं भूतपूर्व गोष्ठीनं यत्र गावः प्राग् आसन् , “गोष्ठादीनञ्" ॥४२॥७९॥१॥ तदाशितंगवीनं स्याद गावो यत्राऽऽशिताः पुरा ॥ ३० ॥ आशितास्तृप्ता गावोऽस्मिन्नाशितङ्गवीनम् , “अषडक्षाऽऽशितंग्वल-" ॥१॥ १०६ ॥ इतीने साधुः ॥१॥ ३० ॥ क्षेत्रे तु वप्रः केदारः क्षयन्त्यत्र धान्यानि, क्षीयते हलैहिस्यते वा क्षेत्रम् . "हुआमा-" ॥ (उणा४५१) ॥ इति त्रः, तत्र उप्यन्ते बीजान्यत्र वप्रः, "भीवृधि." ॥ (उणा-३८७) ॥ इति रः ॥ १॥ 'कदिः सौत्रः' कद्यते केदारः, "द्वारशृङ्गार." ॥ (उणा-४११) ॥ इत्यरे निपात्यते, पुंक्तीबलिङ्गावेतौ ॥२॥ सेतौ पाल्याऽऽलिसंवराः। सीयते बध्यते सेतुः पुंलिङ्गः, “कृसिकम्य-" ॥ (उणा-७७२) ॥ इति तुन् तत्र ॥ १ ॥ पलति पालिः, “कृशृकुटि-" ॥ (उणा-६१९) ॥ इति णिदिः ॥ २ ॥ अलति आलिः स्त्रीलिङ्गावेतौ ॥ ३ ॥ संवृणोति जलं संवरः ॥ ४ ॥ क्षेत्रं तु शाकस्य शाकशाकटं शाकशाकिनम् ॥ ३१ ॥ शाकस्य क्षेत्रं शाकशाकटम् , शाकशाकिनम् , “शाकटशाकिनी क्षेत्रे" ॥७१।७८॥ इति साधू ॥ १ ॥२॥३१॥ हेयं शालेयं षष्टिक्यं कौद्रवीण-मौद्गीने । ब्रीह्यादिनां क्षेत्रे .' बोहेः शालेश्च क्षेत्रं हेयम, शालेयम् , "बीहिशालेरेयण्"॥७॥१८०॥१॥१॥ षष्टिकाः षष्टिरात्रेण पच्यमाना व्रीहयस्तेषां क्षेत्रं षष्टिक्यम् , “यवयवकषष्टिका." ॥ ७।१।८१ ॥ इति यः ॥ १॥ कोद्रवाणां मुद्गानां च क्षेत्र कोद्रवीणम् , मौद्गीनम् , "धान्येभ्यः” ॥ ७।१।७९ ॥ इतीनञ् ॥ १॥१॥ अणव्यं तु स्यादाणवीनमणोः ॥ ३२॥ . अणोः क्षेत्रमणव्यम् , आणवीनम् , “वाऽणुमाषात्-" ॥७॥१८२॥ इति यः पक्षे ईनम् च ॥१॥२॥ ३२ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy