SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३८२ अभिधानचिन्तामणो-... इत्याले निपात्यते ॥ २ ॥ चेदय एव चैद्याः भेषजादित्वात् ट्यण् ॥ ३ ॥ चद्यन्ते - चेदयः, पृषोदरादित्वात् ॥ ४ ॥ २२ ॥ वङ्गास्तु हरिकेलीयाः वङ्गन्ति वङ्गाः ॥ १ ॥ हरिकेलौ भवा हरिकेलीयाः, "दोरीयः" ॥६॥३॥३२॥ ॥२॥ अङ्गाश्चम्पोपलक्षिताः। अङ्गन्त्यङ्गाः, चम्पया नगर्या उपलक्षिताः चम्पोपलक्षिताः ॥ १॥ ... साल्वास्तु कारकुक्षीयाः सलन्ति साल्वाः, “सलेर्णिद् वा" ॥ ( उणा-५१० ) ॥ इति वः ॥ १ ॥ कारकुक्षेरिमे कारकुक्षीयाः ॥ २॥ मरवस्तु दशेरकाः ॥ २३॥ म्रियते तृषा एषु मरवः पुंसि, "भृमृतृ." ॥ (उणा-७१६) ॥ इत्युः ॥१॥ दशन्ति दशेराः, “कुगुपति-" ॥ ( उणा-४३१)॥ इति केरः, के दशेरकाः ॥ २॥ २३ ॥ जालन्धरास्त्रिगर्ताः स्युः जालं धारयन्ति जालन्धराः, “धारेधर्च” ॥५।१।११३॥ इति खः ॥ १॥ तिस्रो गर्ता अत्रेति त्रिगर्ताः ॥ २ ॥ . तायिकास्तर्जिकाभिधाः। तायन्ते तायिकाः ॥१॥ तर्जयन्ति तर्जिकाः, “कुशिक-" ॥ (उणा-४५)॥ इतीके निपात्यते ॥ २॥ कश्मीरास्तु माधुमताः सारखता विकर्णिकाः ॥ २४ ॥ 'कश शब्दे तालव्यान्तः' कशन्ति कश्मीराः, "कशेर्मोऽन्तश्च" ॥ ( उणा४२० ) ॥ इतीरः ॥ १॥ मधुमत्या निवृत्ता माधुमताः, चातुरर्थिकोऽण् ॥ २ ॥ सरस्वती देवता एषां सारखताः ॥ ३ ॥ विशिष्टाः कर्णिका अत्र विकर्णिकाः ॥४॥ ॥ २४ ॥ वाहीकाष्टकनामानः वहन्ति वाहीकाः, "सृणीकास्तीक-" ॥ (उणा-५०) ॥ इति ईके निपात्यते ॥१॥ टकन्ति टक्काः, "निष्कतुरुष्क-" ॥ (उणा-६०७) ॥ इति के निपात्यते ॥२॥ १ तृतीयान्तमेतत् ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy