SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्ड: । ३८१ कुमुदानि सन्त्यत्र, कुमुदानां निवास इति वा कुमुद्वान् ॥१॥ " नडकुमुद - " ॥ ६।२।७४ ॥ इति चातुरर्थिको डिद् मतुप्रत्ययः ॥ २ ॥ वेतखान् भूरिवेतसः । वेतसाः सन्त्यत्र वेतस्वान् देशः, “नङकुमुदवेतसः " ॥ ६ | २|७४ ॥ इति डिमः ॥ १ ॥ नडप्रायो नडकीयो नडुांश्च नडुलश्च सः ॥ २० ॥ नडप्रायो नडबहुल इत्यर्थः ॥ १ ॥ नडाः सन्त्यत्र नडकीयः, "नडादेः कीयः " ॥६।२।९२ ॥ इति चातुरर्थिकः कीयः || २ || "नडकुमुद - " || ६ |२|७४॥ इति डिति मतौ नड्वान् ॥ ३ ॥ “ नडशादाद् -" ॥ ६।२।७५ || इति ङिति वले नड्वलः ॥ ४ ॥ २० ॥ शाद्वल: शादहरिते शादाः सन्त्यत्र शाद्वलः, "नडशादाद् वलः " || ६ | २|७५ || 'नहि कोटरसंस्थेऽग्नौ तरुर्भवति शाद्वल:' इति । शाद्वलं दूर्वा इति च नीलत्वोपचारात्, शादः शष्पं तेन नीले, यच्छाश्वतः- “शष्पकर्दमयोः शादः" इति ॥ १ ॥ देशो नद्यम्बुजीवनः । स्याद् नदीमातृकः नम्बुभ्यो जीवनं वृत्तिरत्र नद्यम्बुजीवनः, तत्र हि नद्यम्बुभ्यः सस्यनिष्पत्तिः । नदी माताऽस्य नदीमातृकः ॥ १ ॥ देवमातृको वृष्टिजीवनः ॥ २१ ॥ Parsi माताऽस्य देवमातृकः, वृष्टिर्जीवनमंत्र वृष्टिजीवनः, वृष्टनिष्पाद्यसस्यत्वात् ॥ १ ॥ २१ ॥ प्राग्ज्योतिषाः कामरूपाः प्राग् ज्योतिषमत्र प्राग्ज्योतिषाः ॥ १॥ कामतो रूपमत्र कामरूपाः ॥२॥ मालवाः स्युरवन्तयः । मलन्ते मालवाः, “मलेर्वा " ॥ ( उणा - ५१७ ) ॥ इति णिदवः ॥ १ ॥ अव्यन्ते अवन्तयः पुंसि, “वद्यवि " ॥ ( उणा - ६६५ ) ॥ इति अन्तिः ॥ २ ॥ पुरास्तु डाहलाः स्युश्चैद्यास्ते चेदयश्च ते ॥ २२ ॥ त्रिपुर्यां अदूरभवास्त्रैपुराः, “निवासाऽदूरभवे ” || ६ |२| ६९ ॥ इति अण् ॥१॥ . दह्यन्ते डाहलाः, ईश्वरेण हि ते त्रिपुरदहनेन दग्धाः, " चात्वाल - " ॥ ( उणा - ४८० ) ॥ ४९
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy