________________
. ३ भूमिकाण्डः।
३७९ विषयस्तूपवर्तनम् ।
देशो जनपदो नीवृद् राष्ट्र निर्गश्च मण्डलम् ॥ १३ ॥ विसिनोति विषयः ॥१॥ उपवर्तन्तेऽस्मिन्नुपवर्तनम् , “उपावर्तनम्” इति सत्यः ॥२॥ दिश्यते देशः ॥३॥ जनैः पद्यते जनानां वा पदं जनपदः ॥४॥ नियतं वर्तन्तऽस्यां नीवृत् स्त्रीलिङ्गः, अमरस्तु पुंस्याह ॥५॥ राजते राष्ट्र पुनपुंसकः, “बट् ( उणा--४४६) इति त्रट् ॥ ६ ॥ निर्गम्यतेऽस्मिन् निर्गः, “ निर्गो देशे " ॥५॥ १।१३३ ॥ इति साधुः ॥ ७ ॥ मण्डयते मण्डलं त्रिलिङ्गः, “ मृदिकन्दि-" ॥ ( उणा-४६५ ) ॥ इत्यलः, अमरस्तु- “नीवृज्जनपदो देशविषयौ तूपवर्त्तनम्” इति पृथगाह ॥ ८ ॥ १३ ॥
आर्यावर्तो जन्मभूमिर्जिनचक्यर्द्धचक्रिणाम् ।
पुण्यभूराचारवेदी मध्यं विन्ध्यहिमाऽगयोः ॥ १२ ॥ आर्या आवर्तन्तेऽत्र आर्यावर्त्तः, जिना अवसर्पिण्यामृषभादयः चतुर्विंशतिः, चक्रिणो भरतादयो द्वादश, अर्धचक्रिणोऽश्वग्रीवादयस्त्रिपृष्टादयश्च नव, साहचर्यादचलादयो बलदेवा नव तेषां जन्मभूमिः ॥ १॥ पुण्यस्य भूः पुण्यभूः ॥ २ ॥ आचारस्य वेदीव आचारवेदी विन्ध्यानेहिमाद्रेश्च मध्यभागः, यद्याडिः- आसमुद्राभ वै पूर्वादासमुद्राच्च पश्चिमात् ।
___ हिमवद्विन्ध्ययोर्मध्यमार्यावर्त विदुर्बुधाः ॥ इति ॥ ३ ॥ १४ ॥
गङ्गायमुनयोर्मध्यमन्तर्वेदिः समस्थली । गङ्गायमुनयोश्च नद्योर्मध्यभूमिरन्तर्मध्ये वेदिरिव अन्तर्वेदिः ॥ १ ॥ समा चासौ स्थली च समस्थली ॥ २ ॥
ब्रह्मावर्तः सरखत्या दृषद्वत्याश्च मध्यतः ॥ १५ ॥ ब्रह्माणो ब्राह्मणा आवर्तन्तेऽत्र ब्रह्मावर्त्तः ॥ १ ॥ १५ ॥
ब्रह्मवेदिः कुरुक्षेत्रे पञ्चरामहदान्तरम् । ब्रह्मणो वेदिब्रह्मवेदिः कुरुक्षेत्रे पञ्चानां रामदानां मध्यप्रदेशः ॥ १ ॥
धर्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि ॥ १६ ॥ धर्मस्य क्षेत्रं धर्मक्षेत्रम् ॥ १॥ कुरवोऽत्र क्षयन्ति स्म कुरुक्षेत्रं तच्च द्वादशयोजनावधि भवति ॥ २॥ १६ ॥
हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ॥ १७ ॥