________________
३ भूमिकाण्डः ।
३७७
रुमायामाकरे भवं प्राग्जीतियेऽणि खार्थे के च रोमकम् ॥१॥२॥ वसति वसु वस्वेव वसुकम् ; यन्माला- “रौमकं वसुकं वसु" ॥३॥ वसूगन्धि वस्तूकं नाम लवणम् ॥ ४॥
विडपाक्ये तु कृत्रिमे ॥ ८ ॥ विलति भिनत्ति मलान् विडम् , पाके साधुः पाक्यं कल्लराख्यम् , पच्यते इति वा कृत्रिमे कृतके इत्यर्थः पाक्यविडलवणयोर्भेदेऽपि कृतकत्वादैक्यम् ॥ १॥२॥ ॥ ८ ॥
सौवर्चलेऽक्षं रुचकं दुर्गन्धं शूलनाशनम् । सुवर्चलाकरे भवं सौवर्चलं तत्र पुंक्लीबलिङ्गः। सुष्ठु वर्चते सुवर्चस्तस्येदं सौवर्चमग्निदीपनम् , तल्लातीति वा ॥१॥ अक्ष्णोति व्याप्नोति अक्षम् ॥२॥ रोचतेऽन्नमनेन रुचकम् , “ध्रुधून्दि-" ॥ (उणा-२९) ॥ इति किदकः ॥ ३॥ दुष्टो गन्धोऽस्य दुर्गन्धं ॥ ४ ॥ शूलरोगं नाशयति शूलनाशनम् ॥ ५ ॥
कृष्णे तु तत्र तिलकं तत्र सौवर्चले कृष्णे तिलति स्निह्यति तिलकं पुंक्लीबलिङ्गः, "ध्रुधून्दि-" ॥ (उणा-२९) इति किदकः, पूर्व तु मधुवर्णमगन्धं कृष्णवर्ण तिलकमित्येके, यद्वैद्याः"कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिते" ॥ इति ॥ १॥
यवक्षारो यवाग्रजः ॥ ९॥
यवनालजः पाक्यश्च यवानां क्षारो यवक्षारः ॥ १ ॥ यवाग्रेभ्यो जातो यवाग्रजः दग्ध्वा यवालरान् जन्यत इत्यर्थः ॥ २ ॥ ९ ॥ यवनालेभ्यो जातो यवनालजः ॥ ३ ॥ पच्यते पाक्यः, असौ वनस्पतिकायजनितोऽपि क्षारप्रस्तावात् पृथ्वीकाये भणितः, एवं स्वर्जिकाक्षारादावप्यूह्यम् ॥ ४ ॥
पाचनकस्तु टङ्कणः ।
मालतीतीरजो लोहश्लेषणो रसशोधनः ॥ १० ॥ पाचयति पाचनः के पाचनकः ॥ १॥ टङ्कयति लोहं टङ्कणः, “चिक्कण-"॥ ( उणा-१९०) इत्यणे निपात्यते, टङ्कनोऽपि ॥ २॥ मालत्यास्तीरे जातो मालतीतीरजः ॥ ३ ॥ लोहं हेमादि श्लिष्यत्यनेन लोहश्लेषणः ॥ ४ ॥ रसं शोधयति रसशोधनः ॥ ५॥ १० ॥
समास्तु खर्जिकाक्षारकापातसुखवर्चकाः ।