________________
३ भूमिकाण्डः ।
"शयवासि." १३॥२॥२५॥ इति सप्तम्या अलुप् ॥ ३ ॥ श्वानं पचति श्वपचः लिहादित्वादच् ॥ ४ ॥ बुक्कति श्वाऽस्य बुक्कसः, “ फनस-" ॥ (उणा-५७३) । इत्यसे निपात्यते, बुक्कामस्यतीति वा 'पुत् कुत्सितं कसति पुष्कस इत्येके, पुक्कस इत्यन्ये' श्वपचो डोम्बो बुक्कसो मृतप इत्यवान्तरभेदोऽत्र नाश्रितः ॥ ५ ॥ निषीदति निषादः ॥ ६ ॥ प्लवते प्लघः ॥ ७ ॥ मन्यते पापीयान् मातङ्गः, “ मनेर्मतमातौ च" ॥ (उण्ण-१००)॥ इत्यङ्गः, मा निषिद्धं तङ्गतीति वा, मातङ्गापत्यमिति पौराणिकाः ॥८॥ दिवा कीर्त्यते दिवाकीर्तिः रात्रौ भयदत्वात् , "स्वरेभ्य इ." ॥ (उणा-६०६)॥९॥ जनं गच्छति जनङ्गमः, “ नानो गमः-" ॥५।१।१३१॥ इति खः ॥ १० ॥५९७॥
पुलिन्दा नाहला निष्ट्याः शबरा वरुटा भटाः ।
माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥५९८॥
पोलन्ति वर्द्धन्ते पुलिन्दाः, "कल्यलि." ॥ (उणा-२४६) इतीन्दक् ॥१॥ नह्यन्ति वल्कलानि नाहलाः, “नहिलङ्गेर्दीर्घश्च" ॥ (उणा-४६६) ॥ इत्यलः ॥२॥ निर्गता वर्णाश्रमेभ्यो निष्ट्याः , “ निसो गते" ॥६ । ३ । १८ ॥इति त्यच् ॥३॥ शवन्ति शबराः, "ऋच्छिचटि." ॥ (उणा-३९७) इत्यरः ॥ ४ ॥ वृणन्ति वरुटाः, "गृजद." ॥ ( उणा-१५३ ) इत्युटः ॥ ५ ॥ भटन्ति भटाः ॥ ६ ॥ मल्यन्ते मालाः, मां लान्तीति वा ॥७॥ भिन्दन्ति भिल्लाः, “भिल्लाच्छभल्ल-"॥ (उणा-४६४)। इति निपात्यते, भिदं विदारणं लान्तीति वा ॥ ८॥ किरन्ति शरान् किराताः, "कृव कल्य." ॥ (उणा-२०९) ॥ इत्यातक् ॥ ९॥ म्लेच्छन्त्यव्यक्तं वदन्ति म्लेच्छास्तेषां जातिरेषां म्लेच्छजातयः, एतेऽरण्यचरा देशभेदाद् भिन्नाः ॥५९८ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञाऽभिधानचिन्तामणिनाममालाटीकायां मयंकाण्डस्तृतीयः ॥ ३ ॥
अहम् अथ तिर्यकाण्डः
अथ तिर्यकाण्डं चतुर्थमारभ्यते । ____ तत्र पृथिव्यप्तेजोवायुवनस्पतिभेदेनैकेन्द्रियाः स्थावराः, द्वित्रिचतुष्पञ्चेन्द्रियभेदेन त्रसाश्च कृमिप्रभृतयस्तियञ्चो वक्ष्यन्ते, तत्र पृथिवीकायिकानाह
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुन्धरा । धात्री धरित्री धरणी विश्वा विश्वम्भरा धरा ॥१॥ क्षितिः क्षोणी क्षमाऽनन्ता ज्या कुर्वसुमती मही। गौर्गोत्रा भूतधात्री क्षमा गन्धमाताऽचलाऽवनिः ॥ २ ॥
४८