________________
३७०
अभिधानचिन्तामणौ
. प्रतिहरणं व्याजः प्रयोजनमस्य प्रातिहारिकः ॥ १॥ मायां करोति माया- . कारः ॥२॥
माया तु शाम्बरी ।। ५८९ ॥ मात्यस्यां विश्वं माया, “स्थाच्छा.” ॥ (उणा-३५७) ।। इति यः ॥ १॥ शम्बराख्यस्याऽसुरस्य इयं शाम्बरी, शं वृणोति शंवरो व्याजस्तस्ययमिति वा ॥२॥ ॥ ५८९ ॥
इन्द्रजालं तु कुहुकं जालं कुसृतिरित्यपि । इन्द्रस्य जालमिन्द्रजालम् ॥१॥ कुहयते विस्मापयते कुहुकम् , “मिवमि-'' ॥ (उणा५१)॥ इत्युकः, कुहकमपि ॥ २ ॥ जालमिव जालम् ॥ ३ ॥ कुत्सिता सृति कुमृतिः ॥ ४ ॥
कौतुहलं तु कुतुकं कौतुकं च कुतूहलम् ।। ५९० ॥ कुतूहलमेव कौतूहलम् , प्रज्ञादित्वादण् ॥ १॥ कुर्भूमिस्तुद्यतेऽनेन, कुत्सितं तन्यते वा कुतुकम् , “निष्कतुरुष्क-" ॥ ( उणा-२६ ) ॥ इति निपात्यते ॥ २ ॥ कुतुकमेव कौतुकं ॥ ३ ॥ कुत्सितं तोहति कुतूहलम् ,, "मुरलपरल." ॥ (उणा४७४ ) ॥ इत्यले निपात्यते, विनोदोऽपि ॥ ४ ॥
व्याधो मृगवधाजीवी लुब्धको मृगयुश्च सः । विध्यतीति व्याधः, "तन्व्यधि." ॥ ५। १ । ६४ ॥ इति णः ॥१॥ मृगबधेनाऽऽजीवति मृगवधाजीवी ॥ २ ॥ लुभ्यति स्म लुब्धः, के लुब्धकः ॥ ३ ॥ मृगान् याति मृगयुः, ‘पीमृगमित्र-" ॥ (उणा-७४१) ॥ इति किदुः ॥ ४ ॥
पापर्धिगयाऽऽखेटो मृगव्याच्छोदने अपि ॥ ५९१ ।। पापानि ऋश्नुवन्त्यस्यां पार्द्धिः ॥ १॥ मृग्यन्ते प्राणिनोऽस्यां मृगया "मृगयेच्छा." ॥ ॥ ॥ इति साधुः ॥ २ ॥ आखेट्यन्ते उत्त्रास्यन्ते प्राणिनोऽस्मिन् आखेटः ॥ ३ ॥ मृगान् व्ययत्याच्छादयति मृगव्यम् ॥ ४ ॥ आचोद्यन्ते प्राणिनोऽस्मिन् आच्छोदनं पृषोदरादित्वाच्चस्य छत्वम् , स्त्रीक्लीबलिङ्गावेतौ ॥५॥५९१॥
जालिकस्तु वागुरिकः जालेन जीवति जालिकः, वेतनादित्वादिऋण ॥१॥ वागुरया चरति बागुरिकः, “चरति” ॥ ६ । ४ । ११ ॥ इतीकण् ॥ २ ॥
वागुरा मृगजालिका।