SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । ३६९ रात्रौ क्षुरकर्मनिषेधात् ॥ ५ ॥ मुण्डयति मुण्डकः ॥ ६ ॥ अन्तमवस्यति अन्ता वसायी ॥ ७ ॥ शेषश्चाऽत्र नापिते ग्रामणीभण्डिवाहक्षौरिकमाण्डिकाः ॥ ७ ॥ मुण्डनं भद्राकरणं वपनं परिवापणम् ॥ ५८७ ॥ क्षौरं 66 मुण्ड्य मुण्डनम् ॥ १ ॥ भद्राक्रियते भद्राकरणम् * मद्रभद्राद् वपने " ||७|२|१४४॥ इति डाच् || २ || उप्यते वपनम् ॥ ३ ॥ परिवाप्यते परिवापणम् ॥ ४ ॥ ५८७ ॥ क्षुरस्येदं कर्म क्षौरम् ॥ ५ ॥ नाराची त्वेषिण्यां नरमञ्चति नराङ् तस्येयं नाराची ॥१॥ इष्यते अन्विष्यते व्रणोऽनया एषणी, “इपोऽनिच्छायाम्” ॥ ५ । ३ । ११२ ॥ इत्यन: गौराादत्वात् ङीः, तत्र ॥ २ ॥ देवाजीवस्तु देवलः । ॥ देवान् लाति देवलः दिव्यतीति वा "मृदि 2 देवानाजीवति देवाजीवः कन्दि-” ॥ ( उणा - ४६५ ) ॥ इत्यलः ॥ २ ॥ मार्दङ्गिको मौरजिकः मृदङ्गो वादनं शिल्पमस्य मार्दङ्गिकः ॥ १ ॥ एवं मौरजिकः ॥ २ ॥ वीणावादस्तु वैणिकः ॥ ५८८ ॥ वीणां वादयति वीणावादः ॥ १ ॥ वीणावादनं शिल्पमस्य वैणिकः ॥ २ ॥ ५८८ ॥ वेणुध्मः स्याद् वैणविकः वेणुं धमति वेणुमो वांशिकः ॥ १ ॥ वेणुवादनं शिल्पमस्य वैणविकः, लक्ष्यानुरोधात् “ऋवर्णोवर्ण -” ॥ ७ । ४ । ७१ ॥ इतीकण्इलोपाभावः ॥ २ ॥ पाणिघः पाणिवादकः । पाणी हन्तीति पाणिघः, “ पाणिघताडघौ शिल्पिनि ॥ ५ । १ । ८९ ॥ इति साधुः ॥ १ ॥ पाणी वादयति पाणिवादकः ॥ २ ॥ स्यात् प्रातिहारिको मायाकारः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy