SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३६८ अभिधानचिन्तामणौ भक्ष्यकारः कान्दविकः भक्ष्यं खरविशदमभ्यवहार्ये करोति भक्ष्यकारः ॥ १ ॥ कन्दुः पण्यमस्य कान्दविकः, “तदस्य पण्यम् " ||६|४|५४ ॥ इतीकण् " ऋवर्णोवर्ण - " ॥७॥४।७१ ॥ इत्यादिना लक्ष्यानुरोधादिकण्इलोपाभावः कन्दुना कृतं कान्दवं तत् पण्यमस्येति वा ॥ २ ॥ कन्दुखेदनिके समे । कन्दन्त्येनां कन्दुः पुंस्त्रीलिङ्गः, “भ्रमृतृ" । (उणा - ७१६) ।। इत्युः ॥ १ ॥ स्वेद्यतेऽनया वेदनी, के स्वेदनिका ॥ २ ॥ रङ्गाजीवस्तौलिकिकश्चित्रकृच्च रज्यन्त्येषु रङ्गा वर्णकाः, तेभ्य आजीवति रङ्गाजीवः ॥ १ ॥ तूलिकालिखनं शिल्पस्य तौलिकिकः ॥ २ ॥ चित्रं करोति चित्रकृत्, चित्रकरोऽपि ॥ ३॥ अथ तूलिका || ५८५ ॥ कूचिका तूलति तूलिका ॥ १ ॥ ५८५ ॥ कूचति कूचिका ॥ २ ॥ चित्रमा लेख्यं चीयते चित्रम्, “चिमिदि - " ॥ ( उणा - ४५४ ) ॥ इति कित्त्रः ॥ १ ॥ आलिख्यते आलेख्यम् ॥ २ ॥ पलगण्डस्तु लेप्यकृत् । पलेन मांसेनेव मृदादिना गण्डति संहन्ति पलगण्डः ॥ १ ॥ लेप्यं केराति लेप्यकृत् लेपकोऽपि ॥ २ ॥ पुस्तं लेप्यादिकर्म स्यात् पुंस्यते अभिमते मृदत्र पुस्तं पुंक्लीबलिङ्गः, " शीरी " ॥ ( उणा - २०१) ॥ इति कित्तः, 'पुस्तण् आदरे' इत्यस्य वाडल, लेप्यमादिरस्य लेप्यादि कर्म ॥१॥ नापितश्चण्डिलः : दुरी ॥ ५८६ ॥ क्षुरमर्दी दिवाकीर्तिर्तुण्डको ऽन्तावसाय्यपि । न आप्यते नापितः, “नत्र आपे: - " ॥ ( उणा - २११) ॥ इति इतः ॥ १॥ चण्डते चण्डिलः, “कल्यनि " ॥ ( उणा - ४८१ ) ॥ इतीलः || २ || क्षुरोऽस्त्यस्य क्षुरी || ३ || ५८६ ॥ क्षुरेण मर्दयति क्षुरमर्दी ॥ ४ ॥ दिवा की दिवाकीर्तिः,
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy