________________
.२ देवकाण्डः।
पुंस्त्रीलिङ्गः! "मृश्विकण्याणिदध्यविभ्य ईचिः" ॥(उणा-६२७)॥ इति ईचिः ॥ १३ ॥ दीप्यतेऽनयेति दीप्तिः स्त्रियां क्तिः ॥ १४ ॥धीयते धाम “मन्" ॥ (उणा-९११)॥ इति मन् ॥ १५ ॥ चाय्यते पूज्यते केतुः “चायः के च-" ॥ (उणा-७७८)॥ इति तुः ॥ १६ ॥ घरति घृणिः “ऋघृसृकुवृषिभ्यः कित्" || ( उणा-६३५)॥ इति णिः ॥ १७ ॥ अश्नुते द्यामिति रश्मिः, एते त्रयः पुंलिङ्गाः “अशो रश्चादिः" ॥ (उणा-६८८)॥ इति मिः ॥ १८॥ पृच्छयते पृश्निः पुंस्त्रीलिङ्गः “लूधूप्रच्छिभ्यः कित्" ॥ ( उणा-६७९)॥ इति निः, पृष्णिरित्येके, वृष्णिरित्यन्ये ॥१९॥१३॥ प्रद्यतेऽनेन पादः ॥ २० ॥ दीधीयते दीप्यतेऽस्या दीधितिः स्त्रियां क्तिः ॥२१॥ कीर्यते करः अल् ॥ २२ ॥ द्योतते युति: स्त्रीलिङ्गः ॥ २३ ॥ द्योतनं द्युत् । "कुत्संपदादिभ्यः क्विप्" ॥५।३।११४॥ इति क्विप् ॥ २४ ॥ रोचनं रुक् ॥ २५ ॥ विरोचतेऽनेन विरोकः ॥ २६ ॥ किरणः प्राग्वत् ॥ २७ ॥ त्वेषते त्विषिः स्त्रीलिङ्गः ॥ २८ ॥ त्वेषणं त्विट् ॥ २९ ॥ भासते भाः पुंस्त्रीलिङ्गः ॥ ३० ॥ प्रभानं प्रभा ॥ ३१ ॥ वसति वाविति वसुः । “भृमृतत्सरि-" ॥ (उणा-७१६) ॥ इत्युः॥३२॥ गभस्तिभानू पूर्ववत् त्रयोऽपि पुंलिङ्गाः ॥ ३४ ॥ भानं भा "मृगयेच्छा-"॥५॥३॥ १०१॥ इत्यादिना निपात्यते ॥ ३५ ॥ मयते विस्तारं गच्छति मयूखः । “ मयेधिभ्यामूखेखौ" ॥ ( उणा-९१) ॥ इत्यूखः ॥ ३६ ॥ मह्यते महः । “अस्" ॥ (उणा-९५२)॥ इत्यस् ॥ ३७ ॥ छथति तम इति च्छविः स्त्रीलिङ्गः । “छविच्छिवि-"॥ (उणा-७०६ ॥ इत्यादिना निपात्यते ॥३८॥ विभानं विभा ॥३९॥१४॥
प्रकाशस्तेज उद्दयोत आलोको वर्च आतपः । प्रकाशते प्रकाशः ॥ १॥ तेजयति तेजः ॥ २ ॥ उद्योतते उद्द्योतः॥ ३ ॥ आलोकते जनोऽनेनेत्यालोकः ॥४॥ वर्चते दीप्यते वर्चः ॥५॥ आतपति आतपः । द्योत इत्यपि ॥ ६॥
मरीचिका मृगतृष्णा ___ मरीचिप्रतिकृतिमरीचिका । “तस्य तुल्ये कः संज्ञाप्रतिकृत्योः॥१॥१०॥ इति कः । ग्रीष्मे हि सिकताखर्ककराः प्रतिफलिता जलत्वेनाभान्ति, अत एव मरुमरीचिकेत्युच्यते ॥१॥ मृगाणां तृष्णाऽस्यां मृगतृष्णा ॥२॥
मण्डलं तूपसूर्यकम् ॥ १५॥
परिधिः परिवेषश्च मण्डयति मण्डलं त्रिलिङ्गः “मृदिकन्दि-"॥ ( उणा-४६५)॥ इत्यादिना अलः ॥१॥ समीपे सूर्यस्य प्रतिकृतिरुपसूर्यकं क्लीबम् ॥२॥१५॥ परितो धीयते परिधिः